पञ्च- नवतितमे अकादमी पुरस्कार समारोहे एस.एस. राजामौले: चलच्चित्रस्य आर. आर. आर. इत्यस्य नाटू-नाटू गीतम् सर्वश्रेष्ठ मूल-गीतार्थं ऑस्कर पुरस्कार विजेतृ-प्रथमं भारतीय- चलच्चित्रं प्रचितम्। गीतस्य संगीतकार: एम. एम. कीरावनी, गीतकार: चन्द्रबोसश्च सम्भूय पुरस्कारं प्राप्तवन्तौ। नाटू-नाटू गीतस्य पार्श्वगायक: राहुल सिपलीगुंजः कालभैरवश्च अमेरीकाया: लॉस एंजेलस डॉल्बी थियेटर साभागारे अकादमी पुरस्कार समारोहे गीतं प्रस्तुतवन्तौ । यस्य प्रस्तुतेः उपस्थितैः जनैः तालिका-वादन-पूर्वकं स्वागतं कृतम्। दीपिका- पादुकोणेन समारोहे गीत गान प्रस्तुतेः घोषणा कृता । एतत् चलच्चित्रम् स्वतन्त्रता सेनानी कोमारम-भीमेण, अल्लूरी-सीतारामा -राजू इत्यनेन च प्रेरितम् अस्ति । अस्य गीतस्य कोरियोग्राफीति प्रशिक्षणं प्रेम-रक्षितेन कृतमस्ति । आर. आर.आर. विगत दशक द्वये प्रथमं भारतीय चलच्चित्रम् अस्ति यद्धि अकादमी पुरस्कारार्थं नामितम्, तत्रैव नाटू-नाटू प्रथमं भारतीय गीतमस्ति यद्धि ऑस्कर पुरस्कारार्थं प्रचितम्।
अकादमी पुरस्कारे भारतस्य “द ऐलिफेंट विस्पर्स” इत्याख्यं लघुचलच्चित्रम्, सर्वश्रेष्ठ-लघु- चलच्चित्र-श्रेण्यां ऑस्कर पुरस्कारेण सभाजितम्। चलच्चित्र-निर्माता कार्तिकी गोन्स्लवेज: इत्यस्य, चलच्चित्र प्रस्तोतुः गुनीत मोंगा इत्यस्य च एक चत्वारिंशत् मिनटात्मके लघु-चलच्चित्रे रघुः इति नामधेयस्य पालकस्य अनाथ-गजशावकस्य च मध्ये विद्यमानः मधुरः सम्बन्धः प्रदर्शितः अस्ति। लघु चलच्चित्र-श्रेण्यां चत्वारि अन्यानि नामितानि चलच्चित्राणि आसन् तानि इत्थं सन्ति-हालात, मराठा मिचेल इफेक्ट, स्ट्रेरेंजर एट द गेट, हाउ डू यू मेजर ए ईयर चेति। द ऐलिफेंट विस्पर्स अस्यां श्रेण्यां ऑस्कर पुरस्कार-सभाजितं प्रथमं भारतीयं चलच्चित्रम् अस्ति।
अत्रावसरेप्रधानमन्त्रिणा श्रीनरेन्द्र मोदिना लॉस एंजिलिस-मध्ये आयोजिते ऑस्कर समारोहे भारतस्य उपलब्धौ प्रसन्नता व्यक्तीकृता अस्ति। अमुना सर्वश्रेष्ठ मूल-गीत-श्रेण्यां नाटू-नाटू गीतस्य ऑस्कर पुरस्कार विजयम् अभिलक्ष्य आर. आर. आर. इति चलच्चित्रस्य समस्त-दलं वर्धापन- वचोभिः सभाजितम्। एकस्मिन् ट्वीट सन्देशे श्रीमोदी व्यलिखत् यत् अस्य गीतस्य लोकप्रियता वैश्विकी वर्तते। अथ च गीतमिदम् आगामि-भूरि-वर्ष पर्यन्तम् स्मरिष्यते । प्रधानमन्त्रिणा द ऐलिफेंट विस्पर्स इत्याख्यस्य लघु चलच्चित्रस्य सर्वश्रेष्ठ ऑस्कर पुरस्कार- प्राप्त्यर्थमपि समग्र-दलाय वर्धापनानि प्रदत्तानि ।
सूचना-प्रसारण-मन्त्री अनुराग सिंहः ठाकुरः सर्वश्रेष्ठ मूल-गीत श्रेण्यां अकादमी पुरस्कार प्राप्त्यर्थं समस्तम् आर.आर.आर. इति चलच्चित्र-दलं वर्धापितवान्। अमुना ऑस्कर समारोहे भारतीय चलच्चित्र-जगतः गौरवे, प्रकृष्ट-विजये च नैजी प्रशंसा अभिव्यक्तीकृता ।











