उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालयस्य परियोजना: भारतसर्वकारस्य अष्टादशी परियोजनानन्तर्गता स्वीकृता:

वार्ताहर:- डॉ.दिनेश: चौबे

नवदेहलीस्थ भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीनं केंद्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशी परियोजनानन्तर्गते उज्जयिनीस्थ महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य तिस्रः परियोजना: स्वीकृता:। भारतीयज्ञानपरम्पराया: प्रणेतारा: ऋषय: ,आचार्या: तेषां अवदानाधारितं चलचित्राणां निर्माणं , शास्त्रार्थकौशलप्रशिक्षणं, शास्त्रसुधा नामिका: परियोजनाः अंतिमरूपेण स्वीकृता:।
व्याकरणविभागप्रमुख: डॉ. अखिलेशकुमारद्विवेदिमहोदयस्य प्रधानगवेष्कत्वेन भारतीयज्ञानपरम्परायां महापुरुषाणां योगदानम् इति विषये चलचित्राणां निर्माणं भविष्यति , परियोजनेयम् एकवर्षस्य भविता प्रमुखवैय्याकरणानां केन्द्रितं चलचित्राणां संस्कृत-हिन्दी-अङ्ग्रेजी भाषासु निर्माणं करिष्यते, अनेन सञ्चार- प्रौद्योगिक्या: तकनीकीमाध्यमेन संस्कृतस्य प्रचार – प्रसार: भवेत् । “शास्त्रार्थकौशलप्रशिक्षणम् परियोजनायाः प्रधानगवेषक: साहित्यविभागप्रमुख: डॉ. तुलसीदासपारौहामहोदय: अस्ति भारते शास्त्रार्थस्य महान् परम्परा वर्तते किन्तु संप्रति सा परम्परा विनष्टा भवति अतः शास्त्रसंरक्षणं कर्तुं शास्त्राणां पूर्वपदम् उत्तरपदं मधिकृत्य प्रशिक्षणं प्रदास्यते। अनेन नानाशास्त्रेषु योग्यविद्वांसः सज्जी भविष्यन्तीति। शास्त्रसुधा परियोजनाया: प्रधाननिदेशक: योगविभागप्रमुख:डॉ. उपेन्द्र भार्गवमहोदय: वर्तते अस्यां परियोजनायां ज्योतिषश्शास्त्रस्य शिक्षण सामग्र्याः सरलभाषया चलचित्रं निर्मीयते यस्मिन् पञ्चाङ्गनिर्माणं,ग्रहणविचार:, ग्रहगति:,वेधशालानिर्माणादया: समावेश: करिष्यते। अनेन छात्राणां सामाजिकानाञ्च महान् लाभः भविष्यति।
विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजी वर्यस्य निर्देशने बहूनां भिन्नविषयकानां उपक्रमाणां आयोजनं विश्वविद्यालयेन क्रियते। आस्मिन्नैवक्रमे “भारतीयज्ञानपरम्पराधारिते “इति विषये स्वीकृतं परियोजनाकार्यं प्रचिलिष्यति । अस्मिन्नवसरे कुलपतिवर्य:सर्वान् शुभकामना: प्रद्दतवान । विश्वविद्यालयस्य कुलसचिव: डॉ. दिलीपसोनीमहोदय: उक्तवान् यत् कुलपतिमहोदयस्य कुशलनिर्देशने दिनानुदिनं विश्वविद्यालयस्य सर्वविधं विकास: जायमानो वर्तते । आचिरादैव देशस्य अग्रणी विश्वविद्यालयेषु पाणिनिविश्वविद्यालयस्य नामोल्लेखः संभविष्यतीति।