विगत अङ्कस्यअवशिष्टं … एतादृशेषु कार्येषु स्नुषां नियोजयतु भवती” इति ।
एतत् श्रुतवत्याः सोमनाथस्य मातुः मनसि भावना उत्पन्ना यत् गृहस्वामिनीत्वम् इदानीं स्नुषायाः अधीनं जातम् अस्ति इति । एतत् चिन्तनं तस्याः मनः कलुषितम् अकरोत् । ततः स्वस्य स्वामिनीत्वं प्रतिष्ठापयितुम् इच्छन्ती सा स्नुषायाः सर्वेषु कार्येषु दोषान् एव उद्भावयितुम् उद्युक्ता अभवत् । श्वश्र्वाः एतादृशं व्यवहारं दीर्घकालं सोढुम् अशक्ता सोमनाथस्य पत्नी प्रतिदूषणम् आरब्धवती । एवं तस्य गृहस्य शान्तिः नष्टा जाता । श्वश्रू-स्नुषयोः कलहतः सोमनाथस्य मनश्शान्तिः अपि नष्टा अभवत् । कलहपरिसरम् अनिच्छन् सोमनाथः क्षेत्ररक्षणव्याजेन रात्रौ अपि गृहागमने परित्यक्तवान् । एतत्सर्वं दृष्ट्रा खिन्नः सोमनाथस्य पिता कदाचित् पुत्रम् उद्दिश्य – “भवतः मातृभगिन्याः गमनानन्तरं भवतः माता एवं संवृत्ता अस्ति । एतस्याः परिस्थितेः परिहारः कथम् इति अहं जानामि । मम कथनानुगुणम् आचरतु भवान्” इति वदन् किं करणीयम् इति विवृतवान् ।
तद्दिने सोमनाथः केदारतः यदा गृहम् आगतवान् तदा तस्य माता स्नुषायाः विषये किमपि वक्तुम् उद्युक्ता । अनुक्षणं सोमनाथः कोपं प्रदर्शयन् – “मम पल्या कृतं खादन्ती सुखेन स्थातुं न शक्नोति वा भवती ? वृथा आक्षेपः किमर्थम् ? न इच्छति चेत् स्पष्टं वदतु । अहं पल्या सह कुत्रापि गच्छामि । पित्रार्जितसम्पदः भागः अपि मास्तु मम” इति उक्तवान् ।
एतत् श्रुत्वा तस्य माता कोपेन वाटिकां गत्वा पतिम् उद्दिश्य सोमनाथेन सह प्रवृत्तं कलहं विवृतवती । तदा सोमनाथस्य पिता पुत्रम् उद्दिश्य “किं भोः, पत्नीं निग्रहीतुम् अपि अशक्तः भवान् कीदृशः पुरुषः ? इतः गन्तुम् इच्छति वा भवान् ? तर्हि गच्छतु नाम । मम पल्याः पोषणम् अहं कर्तुं शक्नोमि । किन्तु तस्याः विषये कमपि अपशब्दम् अहं सर्वथा न सहे” इति उक्तवान् ।
“तथैव उपदेष्टव्यः सः मूर्खः । मम योगक्षेमवहनार्थं भवान् अस्ति इति एतम् अंशम् एव विस्मृतवान् अस्ति खलु एषः ” इति सोमनाथस्य माता उक्तवती ।
तदा सोमनाथः उच्चैः हसन् – “भवत्याः योगक्षेमार्थं यथा भवत्याः पतिः अस्ति तथैव मम पल्याः योगक्षेमार्थम् अहम् अस्मि । पित्रा भवत्याः वचनं श्रोतव्यम् इति अस्ति चेत् मया मम पल्याः वचनं श्रुतं चेत् कः दोषः ? पिशुनवचने विश्वासं कुर्वत्या भवत्या भ्रान्तिः प्राप्ता ‘गृहे मम स्वामिनीत्वं नष्टम्’ इति । तत्कारणतः एव एतत्सर्वं प्रवृत्तम्” इति उक्तवान् ।
सोमनाथस्य वचनं श्रुत्वा स्वदोषं ज्ञातवती तदीया माता क्षणकालस्य मौनस्य अनन्तरम् उक्तवती – ‘वत्स ! युक्तम् अस्ति भवतः वचनम् । पिशुनवचने विश्वस्य मया भ्रमेण विकृताचरणं प्रदर्शितम् । वस्तुतः तु भवतः पत्नी मां मातृवत् पश्यति । श्वश्रूत्वरूपः अहङ्कारः मम आसीत् इत्यतः एतत्सर्वं प्रवृत्तम्” इति ।
किञ्चिद्दूरे स्थित्वा सर्वम् अपि श्रुतवती सोमनाथस्य पत्नी धावन्ती आगत्य श्वश्रवाः पादौ गृहीत्वा – “अम्ब ! मां क्षाम्यतु कृपया । कोपतापादिकं गृहे सहजम् इति अवगच्छन्त्या मया सहनया व्यवहरणीयम् आसीत् । इतःपरम् अहं योग्या स्नुषा इव गृहे व्यवहरिष्यामि इति उक्तवती । अन्यथाभावस्य निवृत्त्या तस्मिन् गृहे शान्तिः पुनः स्थापिता अभवत् । सर्वे सन्तोषेण जीवितवन्तः ।











