भारतस्य जी- विंशतिः अध्यक्षतायाः अन्तर्गतं द्वि-दिवसीयं सा से 20 इत्याख्यं विज्ञान-विंशतिः सम्मेलनम् ३-४ अप्रैल २०२३ दिनाङ्के, त्रिपुरा राज्यस्य अगरतलाया: हपानिया अन्ताराष्ट्रिय मेला-प्राङ्गणे समारब्धम्। जी- विंशतिः समूहस्य उपवेशनानाम् एक-भागत्वेन “हरित- भविष्यार्थं स्वच्छोर्जा” इत्याख्ये विषये अनुष्ठीयमाने अस्मिन् विज्ञान-सम्मेलने षष्ट्यधिकाः प्रतिनिधयः प्रातिनिध्यं कुर्वन्ति ।
भारत सर्वकारस्य प्रधान वैज्ञानिक परामर्शदात्रा अजय सूदेन अस्मिन् अवसरे निजोद्घाटन भाषणे प्रोक्तं यत् विश्वम् अप्रत्याशितान् विषयान् सम्मुखीकुरुते, अतः भविष्यं सुरक्षितुं तेषु तत्कालमेव कार्यान्वयनस्य आवश्यकता वर्तते। अमुना प्रोदितं यत् एतादृशानां विषयाणां आगामि-कालार्थं लम्बनं न शक्यते । श्रीसूदः प्रोदयत् यत् अस्मिन् सम्मेलने त्रिषु उपविषयेषु चर्चा: भविष्यन्ति। येषु प्रथमः विषयः हरित-हाइड्रोजन-सम्बद्धः अस्ति। एषः विषयः विश्वस्मिन्नपि विश्वे सर्वान् देशान् आकर्षयति। अमुना एतदपि भणितं यत् यथा महासागरे आधारिता प्रौद्योगिकी ज्वारीय लहरीभिः बृहन्मात्रायाम् ऊर्जोत्पादने नव्य पीठिकायाः कृते ऊर्जा भण्डारणे च मानवानां साहाय्यं करोति, अनेन बोध्यते यत् अस्माभिः अस्यां दिशि लिथियम इलेक्ट्रो रसायनस्य उपयोगतः अपि अग्रे शोचनीयम्।
विशेषज्ञसमित्याः अवलोकनं प्रो उदय देसाई इत्यनेन कृतम् येन ऊर्जासंक्रमणपरिकल्पनानां कृते एआइ, एमएल च आलिंगनस्य आवश्यकतायाः विषये बलं दत्तम् ।
अध्यक्षीय-सम्बोधनस्य अवसरे भारतस्य पक्षतः प्रधानमन्त्रिणः तद्वक्तव्यम् उल्लेखित यस्मिन् अमुना निगदितं यत् नवाचारः केवलं जलवायु परिवर्तनं समाधातुमेव महत्वपूर्णः नास्ति अपितु जलवायु सम्बद्ध-प्रकरणानां न्यायोचित समाधानार्थम् अपि आवश्यकः अस्ति। एस२० सभायाः अध्यक्षता भारतेन २०२३ तमे वर्षे क्रियते, आगामिनि सभाः लक्षद्वीपे भोपाले च भविष्यन्ति, येषु सार्वभौमिकसमग्रस्वास्थ्यं, विज्ञानं क्रमशः समाजेन संस्कृतिना च सम्बद्धं करणं च केन्द्रितं भविष्यति। शिखरसभा जुलैमासे कोयम्बटूर्नगरे भविष्यति।











