अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम्

नवदेहलीस्थकेंद्रीयसंस्कृत विश्वविद्यालयस्य तत्वावधाने काश्याम् आयोजितायाम् अखिलभारतस्तरीय शास्त्रीयप्रतियोगितायाम् उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेणश्री उद्धवपौराणिकेन न्यायभाषण प्रतियोगितायां गदाधरीयपञ्च लक्षण्यां द्वितीयलक्षणेसाध्य भावादिकर्णत्वं केनसम्बन्धेन इति”विषये द्वितीयस्थानं रजतपदकं च् प्राप्तम्। अस्यां प्रतियोगितायां आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं वहन्ति । प्रदेशस्तरे चित: छात्रा: एव अत्र भागं स्वीकुर्वन्ति । अस्मिन् अवसरे विश्वविद्यालयस्य मान्य:कुलपति:
आचार्यविजयकुमारसीजीवर्य: उपस्थित: आसीत् तेनोक्तं यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत् अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं प्रदर्शितवन्त: पदकानि च अर्जितानि।कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च अभिनंदनं कृतम् । एवञ्च विश्वविद्यालयस्य नीताशर्मा , शिवांशशुक्ल:, अवनीशशर्मा, वैदिकजोशीभि: छात्रै: विविधासु स्पर्धासु प्रतिभागं कृतवन्तः। अवसरेsस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय: ,विद्वांसः आचार्या: ,छात्रा:, अन्यजनाश्च उपस्थिता: आसन्।