प्रश्नोपनिषदः ऋषेः सूर्यदर्शनम्

मार्कण्डेय शारदेय पटना बिहारस्थ

भरतीये वाङ्ममये उपनिषदां स्थानं महत्त्वपूर्णम्। ज्ञानस्य पराकाष्ठा एतासु दरीदृश्यते। एताः वेदैः एव सम्बद्धाः, अतः वैदिके वाङ्मये एव एतासां गणना क्रियते। वेदानां शिरोभागः, वेदान्तशास्त्रम् इत्यपि नाम्ना ज्ञायन्ते एताः । उपनिषद्यते ब्रह्मविद्या अनया इति अस्य साहित्यस्य मुख्यार्थः।
शताधिकासु उपनिषत्सु प्रश्नोपनिषदः नाल्पप्रसिद्धा । अथर्ववेदस्य पैप्पलादीयस्य शाखीयस्य ब्राह्मण-भागस्य अन्तर्गता इयम्। एतस्यां षट् प्रश्नाः, येषाम् उत्तरं महर्षिणा पिप्पलादेन दत्तम्। अनेन अस्याः नाम प्रश्नोपनिषदिति ।
अस्याः उपनिषदः प्रथमः प्रश्नः सूर्यसम्बन्धी । कात्यायनः कबन्धी, यः कत्यर्षेः प्रपौत्रः आसीत्, सः ऋषिः महर्षि पिप्पलादं प्रथमं पृच्छति – भगवन् कुतो ह वा प्रजा प्रजायन्त इति (१.३)। एतच्छ्रुत्वा पिप्पलादः अवदत्- प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनम् उत्पादयते ।

रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति (१.४)

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत् सर्वं यन्मूर्त चामूर्तं च तस्मात् मूर्तिरेव रयिः (१.५) ।
आशयोऽयं यत् परमेश्वर: सृष्टि कामनया प्राणरूपं सूर्यं रयिरूपं चन्द्रमसम् अकल्पयत्। अनयोः एव योगेन मूर्तम् अमूर्तं च जगत् असृजत् । अग्निषोमात्मकं जगदिति मिथुने अग्निरूपः सूर्यः सोमरूपः चन्द्रः, अथवा पुरुषः सूर्यः स्त्री चन्द्रश्चा उभयोः सृष्टि: जड़-चेतनमयी स्थूल सूक्ष्ममयी वेति।
इदानीं महर्षिः कबन्धिनम् कथयति अथ आदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यां प्राणान् रश्मिषु सन्निधत्ते।

अर्थात्ः यदा सूर्यः पूर्वस्यां दिशि उदेति, तदा आत्मनः रश्मिषु नवान् प्राणान् आधत्ते, नवीनां शक्तिं संचारयति तद्दिशीति । एवमेव यां यां दिशं स्वकिरणैः स्पृशति सः, अथवा गभस्तीन् प्रसारयति तस्यां तस्यां दिशि प्रकाशमानः सः स्थावर-जङ्गमेषु प्राणिषु नवस्फूर्तिभिः सिञ्चति । सः एव प्राणिनां जठरे वैश्वानरः नाम्ना प्रतिष्ठः भुक्तं पचति। सः सर्वरूपः, सर्वज्ञः, सर्वाधारः ज्योतिर्मयः सहस्रांशुः उदयन् अनेकशः प्रकारेण लोकान् पाति। अतः ऋषिः कथयति-
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ।
सहस्ररश्मिः शतया वर्तमानः प्राणः प्रजानाम् उदयत्येष सूर्यः।। (१.८)

अग्रे संवत्सर-रूपेण सूर्यस्थस्य प्रजापतेः सृष्टिजन्यस्य कार्यस्य उपस्थापनं कुर्वन् ऋषिः कथयति यत् सः द्वादश-मासानां संघीभूय संवत्सर-रूपेण द्विधया च दक्षिणायनम् उत्तरायणम् इति नाम्ना ख्यातिम् अधिगच्छति। षण्मासात्मकं तस्य रयिप्रधानं दक्षिणाड्गं तु षण्मासात्मकं तस्य सूर्य-प्रधानम् उत्तराङ्गम् इति। रयिः चन्द्रः, अतः दक्षिणायने कृते इष्टापूर्ते भोगोपलब्धिः विशेषेण भवति। भोगेषु भौतिक-सम्पदायाः वृद्धिः, सन्तान-सुखादिकञ्च । अस्मिन् अयने शुभाचरणैः न मोक्षप्राप्तिः। अस्मिन् काले ऊर्ध्वगमने चन्द्रलोकं यावत् गतिसीमा। चन्द्रलोकात् पुनः कर्मानुसारेण शुभाशुभ-साम्ये मनुष्ययोनिः पापाधिक्ये न्यूने पुण्ये मनुष्येतरेषु जन्म इति । अतः ऋषेः उक्तिः-
त एव पुनरावर्तन्ते तस्मादेत ऋषयः प्रजाकामाः दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः (१.६) ।
पिप्पलादः कथयति यत् तपसा, ब्रह्मचर्येण, श्रद्धया, विद्यया च अत्मतत्त्वं चिन्तयन् योगिनः आदित्यलोकं जयन्ति। अर्थात्; ते चन्द्रलोकं न गत्वा ततः ऊर्ध्वं सूर्यलोकं प्राप्नुवन्ति। प्राणानां केन्द्रः स सूर्य एव। अतः तत्र गत्वा योगिनः अभयम् अमृतत्वं प्राप्य न पुनः आवर्तन्ते, जन्म-मृत्यु-जरा- रोगैः विमुक्ताः शाश्वतम् अमरत्वञ्च अधिगच्छन्तीति । देवयान- पितृयानयोः समाकलनं गीतायामपि समानं स्थापनं दृश्यते-
अग्निर्ज्योतिः अहः शुक्लः षण्मासा उत्तरायणम्। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ।।
घूमो रात्रिः तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते । ।
( ८. २४-२५)
अयनान्तरम् ऋषिः ऋतु-मास पक्ष दिनादिकं च निरूपयति । तदनुसारं केषांश्चिद् मतं यत् सूर्यः सर्वेषां पिता स्वर्गात् अपि उपरि तस्य स्थानम्। ततः जलं वर्षयन् भूलोकं पाति। तस्य हेमन्त शिशिरयोः एकीकरणे पञ्चकः पञ्चपावा मेष वृषावयः द्वादश मासा: द्वादश आकृतयः। अर्थात्; इत्व वाला भरा, पूषा, मित्र, वरुणः, अर्यमा, अंशु, विवस्वान्, त्वष्टा, पर्जन्य विष्णुश्चेति द्वादशावित्याः एव अत्र द्वादशाकृतयः कथिताः। सः सनावनात्मक सप्तचक्रात्मके (सामान्यतः अश्वात्मके, येन सः सप्ताश्वः इति कश्यते) रथे, यस्मिन् रथे षड् ऋतवः अरारूपाः सन्ति, तस्मिन् विराजमानः इति कथयन्ति रविरूपः कृष्णपक्षः प्राणरूपः शुक्लपक्षः। उत्तरायण- दक्षिणायनवत् एव शुक्लपक्षः मोक्षसाध्यः कृष्णपक्षः भोगसाध्यः इति पैप्पलादीयः आशयः। एवमेव सः दिनं प्राणमयं रात्रिं च रयिमयीं निर्दिशन् कथयति-
अहोरात्र वै प्रजापतिः तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये विवश त्या संयुज्यन्ते ब्रह्मचर्यमेव तयरात्री रत्या संयुज्यन्ते (१.१३) ।
अतः परम्, ऋषिः आहाररूपेण तं परमेश्वरं निरूपयति येन शुक्रः, शुक्रात् प्रजोत्पत्तिः भवति। ततः पुरुषस्त्रियोः उत्पत्त्या सृष्टिः वर्धते । तेषु ये विधिवत् विवाहं कृत्वा गृहस्थ जीवन जीवन्ति ते भोगं प्राप्नुवन्ति ये च ब्रह्मचर्येण जीवन्ति ते ब्रह्मलोकं गच्छन्ति। परन्तु आचरणे ऋजुता, सत्यनिष्ठा, मायया च निर्लिप्तता आवश्यकी । एतैः गुणैः कोऽपि ब्रह्मत्वं प्राप्तुं ज्ञक्नोति।
आशयोऽयं सूर्यादिव सर्वोत्पत्तिः सूर्ये एव प्रजापतिः, सूर्यादिव चन्द्रः चकास्ति। सूर्यः एव शुक्रम्, चन्द्रः एवं शोणितम्। ततः चन्द्रसूर्ययोः योगात् नाना विधा सृष्टिः समुन्नतिं गच्छति। अतः सूर्य आत्मा जगतः तस्थुषश्च इत्यस्य एवं विवृत्तिः इव प्रतिभाति ऋषेः उक्तिः इयम्।