वार्ताहरः डॉ.दिनेश: चौबे
ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि: विस्मृतानि । विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष – ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति।
चल मिले गांव की चौखट पे इति” शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति । एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्, वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते।
विश्वविद्यालयस्य मान्यकुलपति:आचार्यविजय कुमारसीजीवर्येण उक्तं यत् ज्ञानं केवलं पुस्तकेषु एव न प्राप्यते वास्तुशास्त्रं जीवंतविषयम् अस्ति यत्र प्रत्येकं गृहं , नगरं च प्रयोगशाला वर्त्तते ज्योतिष -ज्योतिर्विज्ञानविभागस्य अयमुपक्रम: राष्ट्रियशिक्षानीति २०२० तथा च मध्यप्रदेश शासनस्य युवनीति इत्यनुसारं विद्यते अयम् एकः उत्तम:प्रयास: अस्ति। कार्यक्रमस्य समन्वयक:ज्योतिषविभागप्रमुख: डॉ.शुभम् शर्ममहोदय: अस्ति।











