भारतस्य अध्यक्षतायां जी20 इत्यस्यांतर्गतं विभिन्न कार्य-समूहानां शततमम् उपवेशनम् अप्रैल मासस्य १७ दिनाङ्के उत्तरप्रदेशस्य वाराणसी- नगरे समारब्धम् । केंद्रीय-मार्ग परिवहन अथ राजमार्ग-नागर विमानन- राज्य मंत्री वी. के. सिंहः ताजहोटल इत्यत्र आयोजितस्य मुख्य कृषि वैज्ञानिकानाम् उपवेशनस्य उद्घाटनं कृतवान् । अस्मिन् अवसरे वी. के. सिंहः प्रोक्तवान् यत् इदम् उपवेशनं महत्वपूर्ण अस्ति यतः हि भारत-सर्वकारः देशे कृषि-संबद्धान् विविध कार्यक्रमान् योजनाः समारब्धवान्। सः प्रोक्तवान् यत् भारतम् अस्मिन् विषये जगत्या सह स्वकीयानुभवान् प्रकटयितुम् शक्नोति । अद्य उपवेशने अन्ताराष्ट्रिय अनुसंधान-सङ्कल्पः महर्षिः इत्यस्मिन् च विषये श्री अन्नेन अन्यैः पुरातन-स्थूलान्नैः च संबद्धा चर्चा प्रस्ताविता वर्तते । आकाशवाण्या सह जाते सम्वादे श्री सिंहः प्रोक्तवान् यत् श्री- अन्नस्य क्षेत्रे भारतं विश्वस्य नेतृत्वं कर्तुम् क्षमम् अस्ति यतः हि वयं सहस्रशः वर्षेभ्यः उत्कृष्टान्नं उत्पादयामः । अवधेयं यत् दिवसत्रयाय एतस्योपवेशनस्य आयोजनं कृषि-कल्याण मंत्रालयस्यांतर्गत कृषि अनुसंधान -शिक्षा-विभागेन क्रियते । जी20 सदस्य-राष्ट्राणां न्यूनातिन्यूनाः अशीति प्रतिनिधयः अस्मिनुपवेशने भागं गृहीतवन्तः।











