राष्ट्रपतिना द्रौपदी मुर्मुवर्यया अप्रैल मासस्य सप्तदश दिवसे, नव दिल्ल्यां राष्ट्रिय पंचायत-पुरस्कार-सप्ताहस्य उद्घाटनं कृतवती । सुश्री द्रौपदी मुर्मु: , राष्ट्रीय-पंचायत-पुरस्कारं प्रदत्तवत उक्तवती च देशस्य ग्रामाणि संपूर्ण- भारतस्य विकासस्य आधारभूत अंशाः सन्ति। । राष्ट्रपति अस्मिन्नवसरे ‘पंचायतान् प्रोत्साहितुम् राष्ट्रीय-सम्मेलनं पुरस्कार-समारोहञ्च’ इत्यस्मिन् कार्यक्रमे राष्ट्रीय पंचायत-पुरस्कारं प्रदत्तवती। श्री मुर्मुः कार्यक्रमं सम्बोधयन्ती उक्तवती यत् देशस्य ग्रामाः संपूर्ण भारतस्य विकासस्य आधारभूत अंशाः सन्ति । सर्वप्रथमं तेषां विकासस्य आवश्यकता अस्ति । सा उक्तवती यत् ग्रामीणाः स्वग्रामाणां स्वसौविध्यानुसारेण विकसितुम् अधिकारिणः भवेयुः । राष्ट्रपति-मुर्मुः महिलानां प्रयासान् प्रशंसयन्ती उक्तवती यत् तासां सहभागितयैव समाजस्य सर्वांगीण विकासः संभवः अस्ति। राष्ट्रपति सबलं समुदीरितवती यत् ग्रामेषु शांतिं सद्भावञ्च संस्थापनायै ध्यानं प्रदातव्यम् । पंचायती राज मंत्रालयः स्वतन्त्रतायाः अमृत महोत्सवस्य द्वितीय चरणस्य भागरूपे, अप्रैल-मासस्य चतुर्विंशति – दिनाङ्के निर्धारितस्य राष्ट्रीय पंचायती- राज-दिवसस्य क्रमे, अद्यारभ्य अप्रैल-मासस्य एकविंशति-दिनांक- पर्यन्तं राष्ट्रीय पंचायत- पुरस्कार-सप्ताहं मान्यते। मंत्रालयः एषमं अवसरं स्मरणीयं कारयितुं “पंचायतानां संकल्पस्य सिद्धयोत्सव” इत्यस्मिन् विषये आधारितानां बहूनां सम्मेलनानां एकां श्रृंखला आयोजयति । अस्माकं वार्ताहरः संसूचितवान् यत् अस्मिन् कार्यक्रमे आराष्ट्रात् सार्धैक-सहस्राधिकाः प्रतिनिधियः भागं गृहितवन्तः । अस्मिन् अवसरे केंद्रीय ग्रामीण-विकास-पंचायती राज मंत्री गिरिराज सिंह: केंद्रीय पंचायती-राज-राज्यमंत्री कपिल मोरेश्वर पाटिल:, केंद्रीय ग्रामीण विकास राज्य मंत्री फग्गन- सिंह-कुलस्तेऽपि उपस्थिताः आसन्।











