व्यवहार परिवर्तनेन जलवायु परिवर्तनं समाधानं च

अप्रैल मासस्य पञ्चादश दिनाङ्के विश्व बैंकस्य एकस्मिन् आयोजने अन्तर्जालीय दृश्य श्रव्य माध्यमेन प्रधानमंत्री नरेन्द्रमोदी प्रोक्तवान् यत् जनानां लघु लघु प्रयासानां परिणामाः बृहत्तराणि भवितुं शक्यन्ते। प्रधानमंत्री नरेन्द्रमोदी प्रोक्तवान् यत् जलवायु परिवर्तन-समस्यायाः समाधानं केवलं चर्चामाध्यमेन नैव भविष्यति अपितु अस्याः कृते गृहे गृहे व्यवहारपरिवर्तनस्य आवश्यकता अस्ति। अस्य आयोजनस्य विषयः आसीत् व्यवहार परिवर्तनेन जलवायु परिवर्तनं समाधानं च । प्रधानमंत्री प्रोक्तवान यत् जनान्दोलन- व्यवहार परिवर्तनयोः प्रकरणे देशवासिभिः विगतेषु वर्षेषु बहुविधानि कार्याणि विहितानि । सममेव असौ लिंग अनुपाते परिष्कारः, स्वच्छता अभियानमालक्ष्य च अपि चर्चा विहिता। श्री मोदी अवादीत् यत् सप्तशताधिकसहस्र-प्रहल- मितौ कृषिभूमौ सूक्ष्मसेचनेन जल संरक्षणं सञ्जातमस्ति । प्रधानमंत्री वैश्विक संस्थाभिः प्रार्थितवान् यत् मिशन लाइफ समम् व्यवहारजनितप्रयत्नानां कृते देशानां प्रोत्साहनं कुर्युः ।
एतेषां कृते पर्याप्तधनार्जनोपायानां अन्वेषणं करणीयम् । अस्मिन्नेव क्रमे विश्व बैंकस्य अध्यक्षः डेविड मालपासः भारतस्य मिशन लाइफ इत्यस्य कृते प्रसन्नतां प्रकटितवान् । असौ प्रोक्तवान् यत् समुचितमूल्यनिर्धारणनीत्या संस्थानानां प्रयासैः आर्थिक प्रोत्साहनेन च व्यवहार पर्यावरणानुकूलपरिवर्तनं भवितुं शक्यते ।
पर्यावरण-वन-जलवायु परिवर्तन मंत्री भूपेन्द्र यादवः समुदीरितवान् यत् जलवायुपरिवर्तनस्य, प्रदूषणस्य, जैव-विविधतायाः क्षतेः च अवरोधानां निवारणाय सामूहिक प्रयासस्य आवश्यकता विद्यते । श्रीयादव: जापानदेशस्य सापोरोनगरे जलवायु ऊर्जा-पर्यावरणविषये जी-सप्त मन्त्रिसभायाः आभासीय सत्रं सम्बोधयन् आसीत् । सः अवदत् यत् संयुक्तराष्ट्रसंघस्य जलवायु परिवर्तन परिषदः षष्ठे प्रतिवेदने जलवायु परिवर्तनात् रक्षणेन सह अस्माकं विकासस्य अपि आवश्यकता वर्तते। प्रतिवेदने बोधितं यत् वैश्विक तापमानस्य वृद्धि नियन्त्रयितुं ग्रीन हाउस- वायुषु कार्बन डायआक्साइड इत्यस्य अधिकतमं न्यूनीकरणस्य आवश्यकता अस्ति। श्रीयादवेन वैश्विक लक्ष्यं नेट शून्य मितं कर्तु पंचाशदधिक- द्विसहस्त्र तमं वर्षं यावत् विकसित देश: कार्बन उत्सर्जने न्यूनतां आनेतुं समाह्वानं विहितम् ।