उत्तराखण्ड राज्ये, एकं विशष्टिाभियानं ‘ऑपरेशन-मर्यादा’इति नामधेयं उत्तराखण्ड-आरक्षिबलेन तीर्थस्थलेषु पर्यटनस्थलेषु च स्वच्छतायै प्रचालितम् । अस्मिन् अभियाने, सप्तषष्टि-जनाः निगडिता: जाताः त्रयाधिक-सप्तशतोत्तर द्विसहस्र-जनानां विरुद्धं उल्लंघन-शुल्क-पत्राणि प्रसारितानि। उत्तराखण्ड आरक्षि-बलस्य महानिदेशक: अशोक कुमारः उक्तवान् यत् अभियानस्य भागरूपे गंगायां तटक्षेत्रेषु उपद्रव कारिणः मादकद्रव्य-वितरकाः झटिति विष्टवधाः कृताः तथा ऐषु क्षेत्रेषु अस्वच्छता-प्रसारकान् विरूद्धं उल्लंघनशुल्क-पत्राणि स्थापितं जायन्ते च । ऑपरेशन मर्यादा अन्तर्गतं उत्तराखण्डस्य धार्मिकस्थानेषु दुष्टतत्त्वानां विषये पुलिस विशेषतया निरीक्षणं करिष्यति।
एतदतिरिक्तं उत्तराखण्डपुलिसः चारधामयात्रायाः अन्यसज्जाम् अपि कुर्वन् अस्ति । चारधामयात्रायां यदि तीर्थस्थलेषु शिष्टाचारः विस्मृतः भवति तर्हि अस्मिन् समये अपि कठोरतरं कार्यं कर्तुं शक्यते। दण्डं दातुं सह भवन्तः जेलं गन्तुं अपि अर्हन्ति । ऑपरेशन मर्याडा इत्यस्य अन्तर्गतं पुलिसेन प्रमुखा सज्जता कृता अस्ति। अस्मिन् समये चारधामस्य परितः १२ दलाः नियोजिताः सन्ति। अस्य अन्तर्गतं कठोरकार्याणि कर्तुं डीजीपी निर्देशान् दत्तवान् अस्ति।











