(वृत्तप्रेषक: डॉ.दिनेश: चौबे)
तिरूपतिस्थराष्ट्रियसंस्कृत विश्वविद्यालये आयोजिते अखिलभारतस्तरीय संस्कृतच्छात्रप्रातिभसमारोहे उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेणश्री उद्धवपौराणिकेन न्यायभाषण प्रतियोगितायां द्वितीयस्थानं रजतपदकं च् प्राप्तम्। अस्यां प्रतियोगितायां वेदान्तभाषणे सुश्री नीताशर्मा तृतीयं स्थानं कास्यपदकं च अर्जितवती।एवञ्च रसप्रश्न स्पर्धायां सुश्रीनिधीशर्मा, सुश्रीनीताशर्मा च तृतीयं स्थानं प्राप्तवत्यौ आभारतात् नाना संस्थाभ्य: समागता: छात्रा: अत्र भागं गृहीतवन्तः। अस्मिन् अवसरे विश्वविद्यालयस्य
मान्यनीयकुलपति: आचार्यविजयकुमारसीजीवर्य: उक्तवान् यत् अस्माकं विश्वविद्यालयस्य छात्रा: देशे सर्वत्र नाना संस्थासु गत्वा पुरस्काराः अर्जयन्ति विश्वविद्यालयस्य गौरवं च वर्धितवन्त:। अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं प्रदर्शितवन्त:। कुलपतिवर्येण मुदितमनसा छात्राणाम् आचार्याणाञ्च अभिनंदनं कृतम् । अवसरेsस्मिन् तिरुपति राष्ट्रियसंस्कृतविश्वविद्यालयस्य प्रातिभसमारोहसमापनमहोत्सवे अनुग्रहभाषणार्थं पूज्यजगद्गुरव: श्रीश्रीशङ्करविजयेन्द्रसरस्वती शङ्कराचार्यस्वामिन:। उपस्थिताः आसन् । येषां करकमलाभ्यां छात्रा: पुरुस्कृता: । अस्मिन् अवसरे संस्कृतविश्वविद्यालयस्य , कुलपति: विद्वांसः आचार्या:, छात्रा:, अन्यजनाश्च उपस्थिता: आसन्। छात्रदलस्य नेतृत्वं साहित्यविभागस्य आचार्येण श्रीआयुषदीक्षितेन कृतम्।











