कल्पनासुन्दरी (वेताल कथा )

साहसकार्यकरणम् एव जीवनस्य लक्ष्य मन्यमानः त्रिविक्रमः पुनरपि वृक्षस्य समीपं गतवान् । वृक्षम् आरुह्य शाखायां लम्बमानं शवं स्कन्धे आरोप्य अधः आगतवान्, ततः मौनं श्मशानाभिमुखं प्रस्थितवान् च । तदा शवान्तर्गतः वेतालः अवदत् – “अये राजन् ! अस्मिन् भयङ्करे अन्धकारे श्मशाने शुद्रजीविनः सञ्चरन्ति । एतादृशस्थले भवान् यत् कष्टम् अनुभवन् अस्ति तत् दृष्टवतः मम मनसि करुणा उत्पन्ना भवति । तेनैव सह कश्चन संशयः अपि उत्पद्यते । सः च ‘अस्मिन् जगति स्थितेषु मानवेषु सर्वरीत्या अत्युन्नतस्थिति प्राप्तवान् अद्वितीयः स्थितप्रज्ञः स्यात् वा भवान्’ इति । तत् आस्तां तावत् । अपूर्वः अलौकिकः अनुभवः कदाचित् मानवेषु दुःखं जनयति । उदाहरणार्थम् अहं – देवसिंहनामकस्य युवकस्य कथां श्रावयामि । श्रद्धया शृणोतु तावत्’ इति ।
अनन्तरं वेतालेन कथा आरब्धा – पूर्व कस्मिंश्चित् देशे देवशर्मा नाम कश्चित् युवकः आसीत् । सः राजवंशीयः केऽपि तत्र न गच्छन्ति स्म । परन्तु देवशर्मा सुन्दरीम् अन्विष्यन् सरोवरस्य समीपम् सुन्दरः च आसीत् । विवाहवयः जातं चेदपि सः यां कामपि कन्यां न अङ्गीकरोति स्म । यतः तस्य मनसि कस्याश्चित् सुन्दर्याः कल्पना आसीत् । तादृश्याः सुन्दर्याः अन्वेषणं सः करोति स्म ।
हिमालयपर्वतप्रान्ते विद्यमानं सरोवरं स्नानार्थं काश्चित् गन्धर्वकन्याः आगच्छन्ति इति देवशर्मा श्रुतवान् आसीत् । मार्गमध्ये अरण्ये क्रूरप्राणिनः सन्ति इति कारणतः केऽपि तत्र न गच्छन्ति स्म। परन्तु देवशर्मा प्राणापायम् अपि अविगणय्य कल्पना सुन्दरीम् अन्विष्यन् सरोवरस्य समीपम् आगतवान्।
तच्च सरोवरं कस्यचित् गन्धर्वराजस्य आसीत् । सरोवरं प्रति तस्य पुत्र्यः जलक्रीडार्थम् आगच्छन्ति स्म । तासु मनोरमानामिकां गन्धर्वकन्यां देवशर्मा दृष्टवान् । तस्याः दर्शनस्य अनुक्षणमेव देवशर्मा चिन्तितवान् यत् एषा एव मम कल्पनासुन्दरी इति । तस्याः समीपं गत्वा देवशर्मा स्वमनोभिलाषं वक्तुं यावत् उद्युक्तः अभवत्, तावता सा सरोवरे निमग्ना सती अदृश्या अभवत् ।
परन्तु देवशर्मा एतेन अल्पाम् अपि निराशाम् अप्राप्नुवन् सरोवरसमीपे एव स्थितवान् । एकमासानन्तरं मनोरमा पुनः तेन दृष्टा । इदानीं सः एकस्य वृक्षस्य पृष्ठतः निलीय तिष्ठन्, यदा सा समीपम् आगता तदा हठात् तस्याः हस्तं गृहीतवान् । परन्तु मनोरमा कथञ्चित् देवशर्मतः आत्मनः न विमोचनं संसाध्य ततः सरोवरे अदृश्या अभवत् ।
यदा ताम् अनुसृत्य गतः देवशर्मा सरोवरस्य अन्तः गन्तुम् उद्युक्तः, तदा ‘तिष्ठतु’ इति गम्भीरस्वरः कश्चन श्रुतः । अनन्तरक्षणे गन्धर्वराजः तिसृभिः स्वपुत्रीभिः सह सरोवरात् बहिः आगतवान्। ताः तिस्त्रः अपि दर्शनेन समानरूपिण्यः आसन् । सः गन्धर्वराजः देवशर्माणम् उक्तवान्- “एताः तिस्रः अपि मम पुत्र्यः एव । एतासु यस्यां भवतः अनुरागः अस्ति तां यदि भवान् अभिज्ञातुं शक्नुयात् तर्हि अहं तां भवते दास्यामि” इति ।
देवशर्मा तिस्रः अपि तदेकदृष्ट्या वीक्षितवान् । ‘एतासु तिसृषु पूर्व का दृष्टा’ इति तेन सर्वथा न अवगतम् । तावति काले तस्य मनसि कश्चन उपायः स्फुरितः । ‘गुल्मान्तरितः अहम् एतासु कस्याश्चित् हस्तं गृहीतवान् आसम् । मम ग्रहणं दृढम् आसीत् । यद्यपि सा तदा मम ग्रहणात् आत्मानं विमोच्य गतवती, तथापि तस्याः हस्ते इदानीम् अपि ग्रहणसूचकं चिह्नं किमपि स्यात् एव । हस्ते तत् ग्रहणचिह्नम् अभिज्ञातं चेत् मदनुरागपात्रीभूता अभिज्ञाता भविष्यति’ इति सः चिन्तितवान् । अतः सः एकैकस्याः अपि हस्तं परिशीलितवान् । तासु एकस्याः हस्तस्य चर्म किञ्चित् रक्तवर्णं सत् कान्तिहीनम् आसीत् । तदा देवशर्मा अनुरागपात्रभूतां ताम् अभिजानन् तां कन्यां गन्धर्वराजाय दर्शितवान् । ….
अवशिष्टम् अग्रिम् अङ्के