प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान् यत् मन की बात इत्येषः कार्यक्रमः जनानां गुणैः सकाशात् अधिगमस्य कश्चन सशक्तमाध्यमः अस्ति। आकाशवाण्याः मन की बात इत्यस्य कार्यक्रमस्य शततमे संस्करणे राष्ट्रं सम्बोधयन् प्रधानमन्त्रिणा अस्य कार्यक्रमस्य सर्वेऽपि श्रोतृवृन्दाः अभिनन्दिताः । श्री मोदिना श्रोतृभिः संप्रेषितानाम् सन्देशपत्राणाम् कृते आभार प्रकटयता कथितं यत् सहृदयानां स्नेहेन सः बहुधा भावुकः सञ्जातः ।
कार्यक्रमोऽयं चतुर्दशाधिक-द्विसहस्त्रतमवर्षस्य अक्टूबरमासेविजयदशम्यां प्रारब्ध: । अवसरेऽस्मिन् प्रधानमन्त्रिणा बालिका: बालिका: पाठयत, स्वच्छ- भारताभियानम्,स्वतन्त्रतायाः अमृतमहोत्सव:, अमृतसरोवर: इत्यादीनां विषयाणामपि उल्लेखः कृतः।
प्रधानमन्त्री अवोचत् यत् गुजरातस्य मुख्यमन्त्रित्त्वेन सामान्यजनैः साकं व्यवहारः स्वाभाविकः आसीत् परं प्रधानमन्त्री भूत्वा इदानीम् परिस्थितिवशात् व्यवहारः क्लिष्टकर: अनुभूयते ।
प्रधानमन्त्रिणा प्रोक्तं यत् मन की बात कार्यक्रमे येषां जनानां उल्लेखः कृतः ते एव नायका, ये कार्यक्रम जीवन्तं कृतवन्तः। सः तेषां जनानां प्रशंसाम् अकरोत् ये चत्वारिंशत् वर्षाणि यावत् निर्जन- पर्वतेषु, वन्ध्यभूमिषु च पादपारोपणं कुर्वन्ति । जलसंरक्षपणार्थं त्रिंशत् वर्षाणि यावत् कृपान, तडागान् च खनन्ति। प्रधानमन्त्रिणा तेषां जनानां प्रशंसा विहिता ये पञ्चविंशतितः त्रिंशत् वर्षाणि यावत्निर्धन बालानां शिक्षणं कुर्वन्ति, निर्धनानाम् उपचारे च साहाय्यं कुर्वन्ति। कार्यक्रमेऽस्मिन् शततमप्रकरणे श्रीमोदी एतेषां केषाञ्चन नायकानां सह संवादं कृत्वा तेषां प्रचलन्त्याः यात्रायाः विषये पृष्टवान्।
प्रधानमंत्री सर्वान् धन्यवादं विहितवान्, ये मन की बात इति शततमे प्रकरणे सहभागितां कृतवन्तः । ट्वीट् संन्देशे सः अवदत् यत् सः जनानां उत्साहेन अभिभूतः अस्ति। सः कार्यक्रम श्रृण्वन् सर्वेभ्यः विशेषक्षणानां चित्राणि स्थापयितुं अभ्यर्धितवान्। अद्य आकाशवाणीतः श्रीमोदी अवोचत् यत् कार्यक्रमोऽयं परगुणात् शिक्षितुं महान् माध्यमः जातः। सः प्रेक्षकान् अभिवादयन् उक्तवान् यत् कार्यक्रमः तेषां एव वर्तते, अपि च भावनायाः अभिव्यक्तेः माध्यमश्च ।
पोर्ट ब्लेयरे अद्य राजनिवासे मन की बात इत्यस्य शततमस्य प्रकरणस्य विशेष प्रदर्शने उपराज्यपालः एडमिरल डी.के. जोशी वरिष्ठाधिकारिभिः गणमान्यैः सह सहभागिता विहितवान्। दूरदर्शनेन कार्यक्रमस्य सजीव प्रसारणं सहैव समग्र भारते राजभवनेन विभिन्नाः कार्यक्रमाः आयोजिताः ।
संयुक्त अरब अमीरात देशे प्रवासी भारतीयजनाः प्रधानमंत्रिणः नरेन्द्र मोदिनः ‘मन की बात’ इत्यस्य कार्यक्रमस्य शततमस्य भागस्य उत्सवं महदोल्लासेन आमानितः। दुबय्यां भारतस्य महावाणिज्यदूतावासेन अस्य कार्यक्रमस्य विशेष अन्तर्जालीयतन्त्रांशस्य आयोजन अपि विहितम् । येषु व्यापारिक जनैः भारतीय नागरिकैः च भाग ग्रहणं अकुर्वन् । सामाजिक कार्यकर्ता लेखकश्च डॉ पुथुर रहमानः अमुं कार्यक्रमालक्ष्य प्रधानमंत्रिणः जनैः साकम् संवादाय प्रशंसां विहितवान्। असौ नागरिक प्रशासनयोः मध्ये ऐक्यं भावं संवर्धनाय सुदृढीकरणाय च एतेषां प्रकरणानां महत्त्वं प्रतिपादितवान्। महावाणिज्यदूतेन डॉ अमन पुरी वर्येण संयुक्त अरब अमीराते ‘कलारिपयट्टू’ इत्यस्य युद्ध कौशलस्य गिनीज बुक ऑफ वर्ल्ड रिकॉर्ड इत्यस्मै नाम्ङ्कनाय् दुबई मार्शल आर्ट् क्लब् इत्यस्य प्रशन्सां विहितः।











