रक्षामन्त्री थलसेनाध्यक्षश्च राजौरीस्थितेः समीक्षणम् अकुरुतां, तत्र पृथक् पृथक् आतंकवादिसेना सङ्घर्षे सैनिकैः दवौ आतङ्कवादिनौ व्यापादितौ

रक्षामन्त्री थलसेनाध्यक्षश्च राजौरीस्थितेः समीक्षणम् अकुरुतां, तत्र पृथक् पृथक् आतंकवादिसेनासङ्घर्षे द्वौ आतङ्कवादिनौ सैनिकैः व्यापादितौ ।
रक्षामन्त्री राजनाथसिंहः राजौरीपुंछक्षेत्रयोः सीमावर्तिजनपदेषु सुरक्षास्थितेः निरीक्षणाय अद्य जम्मूकाश्मीरं प्राप्तवान्। एतयोः पूर्वक्तजनपदयोः अक्तूवर-एकविंशतितमवर्षात् अद्यावधिजायमान अष्टातङ्कवादिघटनासु षड्विंशतिसैनिकाः हुतिंगताः पंचत्रिंशज्जनाश्च मृत्युमुपगताः। जम्मुकश्मीरे प्राप्तेः समनन्तरमेव रक्षामन्त्री श्रीसिंहः सेनाप्रमुखमनोज पाण्डेवर्येण सह राजौरीं प्रति प्रस्थितवान्, यत्र कांदीवनक्षेत्रे आतंकरोध- अभियानं प्रवर्तते। कांदीक्षेत्रे गतदिने आतङ्किसेनासङ्घर्षे पंचसैनिकाः वीरगति प्राप्तवन्तः एकश्च सेनाधिकारी व्रणितो जातः आसीत् । रक्षामन्त्रिणा सह नैके सैन्याधिकारिणः जम्मूमण्डलायुक्तश्च सन्ति, कांदीवनक्षेत्रे अभियानस्य समीक्षणानन्तरं रक्षामन्त्री जम्मूकाश्मीरेषु समग्रसुरक्षास्थितेरपि समीक्षां करिष्यति। अवधेयं यत् एकदशकात् प्राक् राजौरीपुंछजनपदौ आतंकमुक्तौ घोषितौ आस्ताम् परन्तु गतेषु अष्टादशमासेषु अत्र नैकाः आतङ्कघटनाः संजाताः । कांदीवनक्षेत्रे गतेभ्यः पंचदशदिनेभ्यः सुरक्षाबलैः आतंकीग्रहणस्य व्यापकाभियानं संचालितमासीत्, तन्मध्ये एव इयं आतंकी घटना प्रवृत्ता । अस्याः आतङ्कवादीघटनायाः विषये शनिवासरे जम्मूनगरे विविधाः संस्थाः वीथिषु प्रविश्य एतादृशानां आक्रमणानां कृते पाकिस्तानदेशं उत्तरदायी इति कृत्वा प्रदर्शनं कृतवन्तः। आतङ्कस्य मूलं निष्कासनार्थं एतानि संस्थानि केन्द्रसर्वकारेण पाकिस्तानविरुद्धं कठोरकार्याणि कर्तुं आग्रहं कृतवन्तः । शहीदानां श्रद्धांजलिप्रदानेन सह एतैः संस्थाभिः राजौरी-पूञ्चे सुरक्षावर्धनं, आतङ्कवादिनां उन्मूलनार्थं सुरक्षाबलेभ्यः मुक्तहस्तं च दातुं केन्द्रराज्यसर्वकारेभ्यः आग्रहः उत्थापितः। शनिवासरे जम्मू-कश्मीर-उच्चन्यायालयस्य बार-एसोसिएशनस्य बैनरेण जानीपुरस्य जिलान्यायालयसङ्केले एकत्रिताः वकिलाः शहीदसैनिकानाम् श्रद्धांजलिं दत्त्वा पाकिस्तानविरुद्धं सशक्तं प्रदर्शनं कृतवन्तः।
जम्मू-नगरस्य राजौरी-कोतरङ्गा उपमण्डलकेसरी-पहाडीक्षेत्रे शहीदः कुनिगडग्रामस्य (गैर्सैणस्य) रुचिनसिंहरावतस्य रविवासरे प्रातः सार्धद्वादशवादने सैन्यसम्मानेन स्वस्य पैतृकमहादेवघाटे दाहसंस्कारः कृतः।