वार्ताप्रेषकः डॉ.दिनेश चौबे
उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य साहित्य-विशिष्टसंस्कृत विभागयो:विभागध्यक्ष: आचार्य तुलसीदासपरौहामहोदय: उत्तरप्रदेशस्य राजधान्यां लक्ष्मणपुरनगरे भातखण्डे संस्कृतिविश्वविद्यालयस्य कला मण्डपसभागारे रविवासरे समायोजिते २०२३अन्ताराष्ट्रियसनातनधर्म ज्योतिर्विज्ञानसम्मेलने विशिष्टातिथिरूपेण उपस्थित: आसीत् अस्मिन्नैव कार्यक्रमे उत्तरप्रदेशस्य माननीय: उपमुख्यमन्त्री श्रीमान् ब्रजेशपाठकमहोदय: मुख्यातिथिरूपेण उपस्थित: आसीत् । कार्यक्रमे आचार्यपारौहा महोदय: “लाइफटाइम अचीवमेंन्ट आवॉर्ड” इति पुरस्कारेण सम्मानित: जातः। कार्यक्रमस्य अयोजक: राष्ट्रियज्योतिषरुद्राक्ष अनुसंधानसंस्थानम् आसीत् । संयोजक: च् आचार्यपङ्कजत्रिवेदी आसीत्।











