उत्तराखण्डसंस्कृतअकादमी, संस्कृतषिक्षा विभाग(उत्तराखण्ड सरकार) रानीपुरझालज्वालापुरहरिद्वार पुस्तकवितरणसमारोहं

उत्तराखण्ड संस्कृत अकादमी, राज्यस्य सर्वेषां संस्कृतमहाविद्यालयानाम् उपाधिमहाविद्यालयानाञ्च संस्कृतविभागानाम् कृते संस्कृतभाषायाः प्रचारार्थं छात्राणां हिताय च चतुर्लक्षरूप्यकाणां पुस्तकानि अनुप्रदानम् करिष्यति। राज्यस्य संस्कृतमहाविद्यालयानाम् उपाधिमहाविद्यालयानाञ्च पुस्तकालयस्य संवर्धनार्थं ३१ महाविद्यालयेभ्यः प्रायः ४ लक्षरूप्यकाणां पुस्तकानि निःशुल्कं प्रदत्तानि इति उत्तराखण्ड संस्कृत अकादम्याः सचिव ऐस० पी० खली अवदत्।
कार्यक्रमस्य अध्यक्षतां कुर्वन् उत्तराखण्डसंस्कृत-अकादमी-कोषाध्यक्षः श्री सत्येन्द्रप्रसाद डबराल महोदय अवदत् यत् संस्कृतम् अस्माकं द्वितीया राजभाषा अस्ति, परन्तु तस्याः व्यवहारे स्थापयितुं, जनभाषां कर्तुं च, तत्सहितं प्रचारस्य च भाषा, शिक्षा, संस्कृते प्रशिक्षणं च करणीयम् संस्कृतविषयस्य शिक्षा आवश्यकम् अस्ति।
पुस्तकवितरणसमारोहस्य आयोजनं, अकादमी परिसरे १९.०५.२०२३ दिनाङ्के अपराह्णे ३:०० वादने भविष्यति। सचिवः अवदत् यत् अकादमीद्वारा पुस्तकसहायतारूपेण ये पुस्तकानि प्रदत्तानि भविष्यन्ति तेषु मुख्यतया पाठ्यक्रमपुस्तकानि सन्ति। सहायकपुस्तकालयक्षा रमाकठैत उक्तं यत् पुस्तकानुदानयोजनायाः अन्तर्गतं पुस्तकं प्राप्तुं आवेदनं कृतवन्तः सर्वेषां महाविद्यालयानाम् प्राचार्यानाम् सूचनां दत्तुं विहाय कार्यक्रमस्य सर्वाणि सज्जताः अधिकारिणां निर्देशानुसारं कृताः सन्ति।