विश्वपर्यावरणदिनं प्रतिवर्ष “५ जून्” इति दिने अस्ति। बहुषु देशेषु इदं पर्यावरणदिनम् आयुज्यते। विश्वपर्यावरणदिनस्य हेतुः अस्ति – सर्वान् जनान् पर्यावरणस्य विषये ज्ञापयितुम् । मानवाः पर्यावरणस्य महत्त्वं न जानन्ति । मनुष्याणां कार्याणां कारणात् पर्यावरणे प्रदूषणस्य महती समस्या अस्ति। प्रदूषणस्य अपि प्रकाराः सन्ति। यथा जलप्रदूषणं, वायुप्रदूषणं, भूप्रदूषणं ध्वनिप्रदूषणं च ।
एतैः सर्वैः प्रदूषणप्रकारैः जनाः रुग्णाः भवन्ति । प्रदूषितं जलं पीत्वा उदररोगः भवति । वायुप्रदूषणेन श्वासरोगाः भवन्ति। रासायनिक उर्वरकाणां कारणात् भूप्रदूषणं भवति। अनन्तरं, यदा तस्याम् एव भूमौ सस्यानाम् उत्पादनं भवति, तदा फलानि तथा च शाकानि खादित्वा नैके रोगाः भवन्ति। ध्वनिप्रदूषणस्य कारणात् श्रवणरोगाः भवन्ति। प्रदूषणस्य कारणात् केवलं जनाः समस्याः अनुभवन्ति इति नास्ति, परं वृक्षाः, पशवः खगाः च सर्वेऽपि समस्याः अनुभवन्ति।
स्वस्थं पर्यावरणम् अस्माकं स्वस्थजीवनस्य आधारः अस्ति । यथा निर्मलं कीटाणुरहितं जलं वायुः च अस्मभ्यं स्वस्थजीवनं प्रयच्छतः । सम्प्रति वैज्ञानिके ‘युगे उद्योगानां तीन विकासात् पर्यावरणस्य महती समस्या उत्पन्ना । औद्योगिक संस्थानेभ्यः निर्गतं दूषितं जलं त त्रत्यं परिवेषं दूषयति येन बहुविधाः रोगाः जायन्ते । इदमेव दूषितं जलं नदीं प्राप्य तत्रत्यं जलमपि दूषयति । एतेनैव कारणेन पवित्रतमायाः गंगायाः जलमपि बहुश: प्रदूषितं जातम् । गंगाजल प्रदूषणमुक्त कर्तुं राष्ट्रिया योजना निर्मिता तदनुरूपः प्रयासः च प्रवर्तते ।
एवमेव औद्योगिक संस्थानेभ्यः निर्गतेन दूषितेन वायुना वायुमण्डलं दूषितं । तत्परिवेशस्य जनान् च विविध रोगप्रदानेन भृशं पीडयति । जनसंख्यायाः तीव्रविकासेन महानगरेषु जलवायूवो: प्रदूषणस्य भीषणा समस्या उपस्थिता अस्ति । एतदर्थं शासनेन प्रभाविनः प्रवासाः विधीयन्ते । अस्माभिः अपि स्वपर्यावरणं शोधयितुं यथासंभव प्रयत्नः करणीयः यतो हि शुद्धे पर्यावरणे एवं वयं सुखेन जीवितुं शक्नुमः ।
वयं वायुजलमृदाभिः आवृत्ते वातावरणे निवसामः । एतदेव वातावरणं पर्यावरण पर्यावरणेनैव वयं – जीवनोपयोगिवस्तुनि प्राप्नुमः । जलं वायुः च जीवने महत्वपूर्णो स्तः। साम्प्रतं शुद्ध – पेय जलस्य समस्या वर्तते । अधुना वायुरपि शुद्धं नास्ति। एवमेव प्रदूषित पर्यावरणेन विविधाः रोगाः जायन्ते । पर्यावरणस्य रक्षायाः अति आवश्यकता वर्तते । प्रदूषणस्य अनेकानि कारणानि सन्ति । औद्यौगिकापशिष्ट – पदार्थ – उच्च – ध्वनि – यानधूम्रादयः प्रमुखानि कारणानि सन्ति। पर्यावरणरक्षायै वृक्षाः रोपणीयाः वयं नदीषु तडागेषु च दूषितं जलं न पतेम् तैल रहित वाहनानां प्रयोगः करणीयः । जनाः तरुणां रोपणम् अभिरक्षणं च कुर्युः कथ्यते।
पर्यावरणस्य रक्षणं सर्वेषां जनानां दायित्वम् अस्ति । पर्यावरणस्य प्रदूषणात् रक्षणं कर्तुं शक्यते। पर्यावरण रक्षयितुं सर्वत्र पादपारोपणं करणीयम्। नदीनां समुद्राणां च जलं निर्मलं कर्तुं सर्वैः जनैः प्रयत्नानि करणीयानि । सर्वेषां जनानां प्रयत्नैः अस्माकं पर्यावरण शुद्धं भविष्यति।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्॥
इदं शास्त्रवचनं सत्यं कर्तुम् अस्माभिः सर्वैः विश्वपर्यावरणदिनात् प्रारभ्य पर्यावरणस्य रक्षणं करणीयम्।











