जी-सप्त-शिखरसम्मेलनम् – प्रधान्मन्त्रिणस्य देशत्रयाणां यात्रा

प्रधानमन्त्री नरेन्द्रमोदी देशत्रयाणां यात्रायाः प्रथमे चरणे मई-मासस्य नवदशतः मई-मासस्य एकविंशतिदिनाङ्कपर्यन्तं जापानदेशे आसीत् , तत्परं , पपुआ-न्यूगिनी देशे , अपि च मई मासस्य द्वाविंशतिः दिनांके आस्ट्रेलियादेशं सम्प्राप्तवान । सः जापानदेशस्य हिरोशिमा नगरे सञ्जाते जी सप्त शिखर सम्मेलने भागं गृहीतवान् । अस्मिन् अवसरे जापानस्य प्रधानमंत्री फुमियो किशिदा आयोजनस्थले श्री मोदिनः स्वागतं विहितवान् । श्रीमोदी जापानदेशस्य प्रधानमन्त्रिणः फुमियो किशिदा- इत्यस्य जी-सप्त-शिखरसम्मेलनाय कृतामन्त्रणेन तत्र आसीत् । सम्मेलनावधौ प्रधानमंत्री नरेन्द्र मोदी अमरीकीय राष्ट्रपतिः जो बाइडेन च उभौ परस्परोत्साहेन अभिनन्दितवन्तौ । शिखरसम्मेलनस्य कालखण्डे प्रधानमन्त्री सहभागिदेशैः सह जी सप्त इत्यस्य सत्रेषु शान्तिः, स्थिरता, समृद्धिः इत्यादिविषयैः सह खाद्य, उर्वरकं, ऊर्जासुरक्षा इत्यादीनां विषयाणां विषये अपि चर्चां कृतवन्तः। सः शिखरसम्मेलनेस्मिन् कैश्चित् सहभागिभिः नेतृभिः सह द्विपक्षीयसमागममपि अकरोत्। प्रधानमंत्री नरेन्द्र मोदी जापानदेशीयः प्रधानमंत्री फुमियो किशिदा, दक्षिण कोरियायाः राष्ट्रपतिः, वियतनामस्य प्रधानमंत्री एतैः सह द्विपक्षीयां परिचर्चां विहितवान् । उपवेशनावधौ श्री मोदी हिरोशिमायां बोधि नामधेयं पादपं आरोपयितुं श्री किशिदावर्य धन्यवादं प्रदत्तवान्। उपवेशनेस्मिन् उभयोः नेत्रयोः मध्ये व्यापारं अर्थव्यवस्थां संस्कृति च समेत्य विविधेषु क्षेत्रेषु भारतजापानयोः मैत्रीं सुदृढीकरणाय परिचर्चा विहिता। श्री मोदी हिरोशिमायां महात्मा गांधिनः प्रतिमायाः अपि अनावरणं विहितवान् । अस्मिन् अवसरे असौ प्रोक्तवान् यत् अदय आसंसारे जलवायुपरिवर्तनातंकवादयोः समस्याः परिवर्धते । जी- सप्त सम्मेलने परमाणुनिरस्त्रीकरणं, सुरक्षां क्षेत्रीयविषयाः, पर्यावरणं ऊर्जा, खाद्यं, स्वास्थ्यं च इत्यादिषु विषयेषु चर्चां अभवत् । एतदतिरिच्य डिजिटीकरणं, विज्ञानं प्रौद्योगिकी विषयेषु च अपि चर्चा भविष्यति। जापानेन ऑस्ट्रेलिया, ब्राजील, कोमोरॉस, कुक आइलैंड, इंडोनेशिया, दक्षिण कोरिया, वियतनाम, संयुक्त राष्ट्रम् समेत्य केचित् अन्य अंतर्राष्ट्रीयसंगठनान् अपि सम्मेलने सहभागं कर्तुं आह्वानं विहितम् । श्री मोदी अग्रिमे मासे एकविंशतिः दिनांकात् प्रारभ्य चतुर्दिवसं यावत् अमरीकादेशीय यात्रायै प्रयास्यति।
ततः प्रधानमन्त्री पापुआ- न्यूगिनीदेशस्य पोर्ट मोरेस्बीनगरं गत्वा मेमासस्य द्वाविंशतिदिने पपुआ- न्यूगिनीदेशस्य समकक्षेण जेम्स् मारापे इत्यनेन सह संयुक्तरूपेण भारत- प्रशांतद्वीपसहकार्यस्य मञ्चस्य तृतीयशिखरसम्मेलनस्य आतिथ्यं अकरोत् । प्रधानमन्त्री मोदी पापुआ- न्यूगिनीदेशे गवर्नर जनरल् बब् दाडे, प्रधानमन्त्री जेम्स् मरापे इत्येताभ्याञ्च सह मेलनमपि अकरोत् । भारतस्य प्रधानमन्त्रिणः पापुआ- न्यूगिनीदेशस्य इयं प्रथमा यात्रा अभवत् । तस्मिन् एव दिने प्रधानमन्त्री आस्ट्रेलियादेशस्य सिड्नीनगरं सम्प्राप्त्वान् ।
सः मई मासस्य द्वाविंशतिः दिनांके आस्ट्रेलियादेशं सम्प्राप्त्वान् । श्रीमोदी चतुर्विंशतिदिने स्वस्य आस्ट्रेलियादेशस्य सहयोगिना प्रधानमन्त्रिणा एन्थोनी अल्बानेस् इत्यनेन सह द्विपक्षीयसमागमं अकरोत् । प्रधानमन्त्री आस्ट्रेलियादेशस्य मुख्याधिकारिभिः व्यापारनेतृभिः सह अपि संवादं अकरोत् तथा सिडनी नगरे सामुदायिक कार्यक्रमे भारतीय प्रवासिनश्च् सम्बोधितवान्।