वार्तासंयोजकः डॉ. दिनेश चौबे
उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेमासस्य चतुर्विंशतितमे दिनाङ्के बुधवासरे प्रातः एकादशवादने विक्रमकीर्तिमन्दिर-देवासमार्ग
परिसरस्य सभागारे समायोजिष्यते । दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधानसङ्घ्ठनम् ( इसरो) इत्यस्य प्रमुख: श्रीमंत: श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे कार्यक्रमोऽयं भविष्यति। समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण इसरो अध्यक्षः श्रीमान्श्रीधरसोमनाथवर्य: एवञ्च उज्जयिनी- सांसद:
श्रीअनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: श्रीपारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः , विश्वविद्यालयस्य कुलसचिवः डॉ. दिलीपसोनीमहोदयाः उपस्थिताः भविष्यन्ति । मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय:
श्रीमङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामना:प्रेषितवान् ।
पाणिनिसंस्कृतविश्वविद्यालयेन विंशतिमहाविद्यालयाः सम्बद्धाः सन्ति । तेषु ९ शासकीयाः, ११ अशासकीयाः सन्ति । २०२१-२२ तमेसत्रे स्नातकस्नातकोत्तर पत्रोपाधिपरीक्षासु उत्तीर्णाः १३९७ छात्राः उपाधिं प्राप्तुम् अर्हा:। प्रावीण्यसूच्यां प्रथमद्वितीयतृतीयस्थानप्राप्तछात्राः स्वर्ण-रजत-कांस्यपदकैः सम्मानितो भविष्यन्ति । एवञ्च विद्यावारिधिच्छात्राः अतिथिनां करकमलाभ्याम् उपाधिं प्राप्स्यन्ति ।











