वार्ताप्रेषकः डॉ.दिनेश चौब
उज्जयिनीस्थेमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य राष्ट्रियसेवायोजना (एनएसएस)इत्यस्य तत्तावधाने विश्वपर्यावरणदिवसस्यावसरे ५तमे दिनाङ्के सोमवासरे एनएसएस इत्यस्य स्वयंसेवकै: विश्वविद्यालयपरिसरे स्वच्छताभियानं कार्यक्रमस्य आयोजनं कृतम्। अवसरे$स्मिन् विश्वविद्यालयं प्लास्टिकमुक्तम् एवञ्च हरितपरिसरं कर्तुं सङ्कल्पः कृत: । विश्वविद्यालयस्य माननीयकुलपति:आचार्य: विजयकुमार: सीजीवर्य: स्वसंदेशे उक्तवान् यत् पर्यावरणम् उद्दिश्य कार्यक्रमाः आयोजनीया: अनेन समाजे परिवर्तनानि जायन्ते यतोहि वयं पर्यावरणाच्छादिते वातावरणे निवसाम:अत:अस्माकं कर्तव्यम् अस्ति यत् वयं पर्यावरणस्य संरक्षणार्थं सङ्कल्पिता:भवेम।अस्मिन् दिने वयं सर्वे स्वपर्यावरणं स्वच्छं स्थापयितुं च प्रतिज्ञां कुर्मः।
विश्वविद्यालयस्य कुलसचिवेन डॉ दिलीपसोनीमहोदयेनोक्तं वयं जानीमः एव यत् वृक्षा:अस्माकं जीवने कियत् महत्त्वपूर्णा:सन्ति वृक्षाणां संरक्षणेन एव पर्यावरणस्य संरक्षणं भवति । एनएसएससेवा प्रकल्पस्य प्रमुख: डॉ.उपेन्द्र भार्गवमहोदयस्य नेतृत्वे कार्यक्रमोsयम् अभूत्। अस्मिन् सेवाकार्यसमये विश्वविद्यालयस्य प्राध्यापका: छात्रा- शोधच्छात्राः उपस्थिता:आसन्।











