वार्तासंयोजकः डॉ. दिनेश चौबे
उज्जयिनीस्थेमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य प्राचीनयोगविज्ञानविभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढकृष्णचतुर्दश्यां तदनु सप्तदशतमेदिनाङ्के शनिवासरे नवम् अन्ताराष्ट्रिययोग दिवसस्ययोपलक्ष्ये विशिष्टव्याख्यानस्य आयोजनं विश्वविद्यालयस्य योगेश्वरश्रीकृष्ण योगभवनस्य सभागारे विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमारसीजीवर्यस्य संरक्षकत्वे अभूत्। कार्यक्रमे सारस्वतातिथिरूपेण डॉ.निशाजोशीमहोदया योगविभागाध्यक्षा, श्रीजैनश्वेताम्बर आकादमी, अहिल्याविश्वविद्यालयः इंदौरनगरतः उपस्थिता आसीत्। महोदया श्रीमद्भगवदीतायाम् कर्मण्येवाधिकारस्ते इति श्लोकादारभ्य कर्मयोग- ज्ञानयोग- संन्यासयोग- विषये ज्ञानवर्धकं व्याख्यानं कृतवती।
गीताप्रवृत्तिप्रधानग्रन्थो वर्तते। गीतायां भगवताकृष्णेन जीवनप्रबन्धस्य यानि सूत्राणि दत्तानि तानि स्वजीवने आचरणीयानि ।
अत्र विशिष्टातिथिरूपेण डॉ. उपेन्द्रखत्रीमहोदय: योगविभागाध्यक्ष:, सांचीबौद्धविश्वविद्यालयः,भोपालसमीपतः उपस्थित: आसीत्।महोदय:प्राकृतिकम्, आधिकारिकम्, वैयक्तिकम्, सामाजिकञ्चेति अनुशासनस्य चत्वारः प्रकाराः प्रतिपादितवान्। निद्रा, बुभुक्षा, जागरणादिकम् प्राकृतिकमस्ति । प्रेरणां विनैव अत्र ध्यानं गच्छति । अतः नियतं कुरु कर्मत्वम्। योगस्थः कुरु कर्माणि अपि च सिद्ध्यसिद्ध्योः समोभूत्वा समत्वं योग उच्यते । इत्यादीन् विषयान् सम्यक्तया उपस्थापित्वान्।
कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन वैदिकमङ्गलाचरणेन च जातः।तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। तत: वाचिकं स्वागतं प्रास्ताविकञ्च योगविभाग प्रमुखेन डॉ. उपेन्द्रभार्गवमहोदयेन कृतम् । व्याख्यानकार्यक्रमे सामाजिका:, छात्रा: ,शोधच्छात्राः विश्वविद्यालयस्य आचार्या:,
कर्मचारिण: अन्यजनाश्च उपस्थिता: आसन् । कार्यक्रमोSयं कुलसचिव: डॉ. दिलीपसोनी महोदयस्य मार्गदर्शने सञ्जात:। कार्यक्रमस्य सञ्चालनं,
सुश्रीईशापाटीदारमहोदया कृतवती ।आभारप्रदर्शनं डॉ.वरुण आहुजामहोदयेन कृतम् कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।











