भारतस्य तजिन्दरपाल-सिंह-तूर इत्यनेन भूवनेश्वर-नगरे अन्ताराज्यीय प्रतिस्पर्धायां कन्दुक- उत्क्षेपणे नूतनं एशिया महाद्वीप-कीर्तिमानं संस्थापितम्।

भारतस्य तजिन्दरपाल सिंह तूर इत्यनेन भूवनेश्वर-नगरे अन्ताराज्यीय प्रतिस्पर्धायां कन्दुक- उत्क्षेपणे नूतनं एशिया महाद्वीप-कीर्तिमानं संस्थापितम्। सः एकविंशतिः दशमलव सप्त-सप्त मीटर-परामितं कुन्दुक-उत्क्षेपयित्वा स्वस्य पूर्व कीर्तिमानं संशोधितवान्। इतः पूर्वं सः एकविंशत्यधिक-द्विसहस्त्रतमे वर्षे पटियाला-नगरे एकविंशतिः दशमलव चतुः नव मीटर-परिमितं कन्दुक-उत्क्षेपण-कीर्तिमानं संस्थापितवान् आसीत्। एतेन प्रदर्शनेन सः विश्वे दूरतमं कन्दुक- उत्क्षेपणक्रीडकानां सूचीकायां नवम-स्थानं प्राप्तवान् एषा अन्ताराज्यीय एथलेटिक्स-प्रतिस्पर्धा एशिया महाद्वीप-क्रीडाय योग्यता-स्पर्धा अस्ति।