महाकविकालिदास दिवसस्योपलक्ष्ये उज्जयिन्यां विशिष्टव्याख्यानमायोजितम्

वार्तासंयोजकः डॉ. दिनेश चौबे

उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य संस्कृतसाहित्यविशिष्टसंस्कृत विभागस्य तत्त्वावधाने वैक्रमाब्द: २०८० आषाढशुक्ल द्वितीया तदनु विंशतितमेदिनाङ्के मङ्गलवासरे महाकवि-कालिदासदिवस महोत्सवस्योपलक्ष्ये आषाढस्य प्रथमदिवसे महाकवि कालिदासस्य वागर्चनम् इति विषये विशिष्टव्याख्यानम् एवञ्च स्वरचितसंस्कृतकाव्यपाठस्य आयोजनं विश्वविद्यालयस्य योगेश्वरश्रीकृष्णयोगभवनस्य सभागारे अभूत् । महाकवि कालिदासस्य जयन्त्यावसरे आयोजिते कार्यक्रमे। महाकविकालिदासस्य प्रमुखकृतीनां पाठः विश्वविद्यालयस्य छात्रै: प्रस्तुतम्।
डॉ. शिवानन्दमिश्र:, सुश्रीपूजागौरमहोदया च् स्वरचितकाव्यस्य पाठं अकुरुताम् । मुख्यवक्तृरुपेण आचार्यावन्दना त्रिपाठीमहोदया, सेवानिवृत्ताचार्या, शासकीय कन्यास्नात्कोत्तरमहाविद्यालय:, उज्जयिनी आसीत् । महोदया कालिदासस्य उपमानां वैशिष्ट्यम् रमणीयता, कालिदासस्य नाटकानां प्रारम्भः कथावस्तुविषये विस्तरेण प्रवोधितवती।
अध्यक्षरूपेण विश्वविद्यालयस्य माननीयकुलपति: आचार्यविजयकुमार: सीजीमेननवर्य: अध्यक्षीय- उद्बोधने उक्तवान् यत् कालिदासस्य उपमा वैविध्यम् आश्चर्यकरम् अस्ति कविषु कालिदास: विश्वविख्यात: कालिदासस्य अर्थालङ्कारेषु उपमा आनन्दानुभवं जनयति उपमालङ्कारे कालिदास: विशिष्यते । अतएव उपमा कालिदासस्य इति उक्तिः प्रसिद्धा अस्ति।कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन दीपप्रज्वालनेन वैदिक मङ्गलाचरर्णेन च जातः। तदनु विश्वविद्यालयस्य कुलगानं अतिथिनाम् उत्तरीयवस्त्रप्रदानेन, पुष्पमालया च स्वागतं जातम्। ततःसाहित्यविभागप्रमुखेन कार्यक्रमसंयोजकेन च् डॉ. तुलसीदासपारौहामहोदयेन वाचिकं स्वागतं प्रास्ताविकं भाषणञ्च प्रस्तुतम्।
अस्मिन्कार्यक्रमे विश्वविद्यालयस्य वेदव्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदिमहोदय:, योगविभागप्रमुख: डॉ.उपेन्द्रभार्गव: वेदविभागप्रमुख:
डॉ. संकल्पमिश्रवर्य: सर्वे आचार्या:, छात्रा:, शोधच्छात्राः कर्मचारिण: अन्यजनाश्च उपस्थिता: आसन्। कार्यक्रमस्य सञ्चालनं विभागीयाध्यापकेन
श्रीमताआयुषदीक्षितेन आभारप्रदर्शनं ज्योतिषविभाग प्रमुखेन डॉ. शुभम् शर्ममहोदयेन कृतम्। मार्गदर्शनं कुलसचिवस्य डॉ. दिलीपसोनीमहोदयस्य आसीत् । सहसंयोजका: डॉ.अजयराठी, डॉ.अनिलमुवेळ:,साहित्यविभागीयप्राध्यापकाश्च आसन्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।