गाँन्धी शान्ति पुरस्कारः

एकविंशत्यधिक द्विसहस्रमवर्षस्य गान्धी -शान्ति पुरस्कार: गीता प्रेस- गोरखपुर इत्यस्मै प्रदीयते। गीतप्रेस इत्येतत् प्रकाशनं विश्वस्य बृहत्तम प्रकाशकेषु अन्यतममस्ति । येन चतुर्दशभाषासु एकचत्वारिंशत्-कोट्यधिक-पुस्तकानि प्रकाशितानि। एतेषु कोटितोऽप्यधिकानि श्रीमद्भगवगीताया: पुस्तकानि सन्ति । गान्धी – शान्ति-पुरस्कार: महात्मा गान्धिनः सपादशततमस्य जन्मजयन्त्यवसरे सर्वकारेण संस्थापितः एको वार्षिकपुरस्कारः अस्ति । अयं पुरस्कार: गीताप्रेस इत्यस्मै तस्य उत्कृष्टयोगदानाय प्रदास्यते।