रामनगरमहाविद्यालयस्य योगविभागद्वारा “योगः समग्रस्वास्थ्यं च ” इति विषये गुरुदिवसव्याख्यानम् आयोजितम्

वार्तासंयोजकः डॉ. मूलचन्द्र शुक्ल

उत्तराखण्डः। पी एन जी राजकीय-स्नातकोत्तर- महाविद्यालय- रामनगरस्थस्य,नैनीताल-उत्तराखण्डस्य योगवैकल्पिकचिकित्साविभागद्वारा गुरुदिवस-व्याख्यानमालायाः द्वितीयशृंखलाक्रमे ऑनलाइन षोडशः ,16 व्याख्यानमायोजितम्। व्याख्यानमालायाः शुभारम्भमकरोत् कार्यक्रमनिदेशकः प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः । महोदयेन अतिथीनां स्वागतपूर्वकं गुरुदिवस-व्याख्यानमालायाः संक्षिप्तप्रस्तावना प्रस्तुता। व्याख्यानस्य विषयः “योगः समग्रं स्वास्थ्यञ्च” आसीत् । कार्यक्रमस्य मुख्यातिथिः जगद्गुरु-रामभद्राचार्य-दिव्यांग -विश्वविद्यालय-चित्रकूटस्थस्य ,उत्तरप्रदेशस्य माननीयकुलपतिः प्रोफेसर शिशिर-कुमार पाण्डेय महोदयो वर्तते ।मुख्यातिथिना स्वोद्बोधने प्रोक्तं यत् मानवो योगस्य अष्टाङ्गानि स्वजीवने अवधार्य जीवनं निर्मलं सुव्यवस्थितं च कर्तुं स्वयमेव प्रभविष्यति। मुख्यातिथिना निगदितं यत् कुण्डलिनीजागरणेन मानसिकस्वास्थ्यं सम्यक् भवितुमर्हति । कुलपतिमहोदयेन स्वीये वक्तव्ये तुलसीदासस्य रामचरितमानसात् “मोह सकल व्याधिन कै मूला” इत्यादीनि उदाहरणान्यपि प्रस्तुतानि।कार्यक्रमस्य मुख्यवक्त्री बरकतउल्ला-विश्वविद्यालयस्य, भोपालस्थस्य, मध्यप्रदेशस्य योगविभागाध्यक्षा प्रोफेसर साधना दौनेरिया आसीत्। एतया ‘ योगः समग्रं स्वास्थ्यं च ” इत्यत्र विस्तृतं सारगर्भितं च व्याख्यानं प्रस्तुवता योगचिकित्सायाः महत्त्वम् , उद्देश्यं वर्तमानकाले प्रासङ्गिकता च इत्यादिषु विषयेषु विहितम्। तया स्वव्याख्याने उक्तं यत् यमः, नियमः, आसनम्, प्राणायामः, प्रत्याहारः एतानि पञ्च बाह्यसाधनानि धारणा, ध्यानं समाधिश्च एतानि त्रीणि आन्तरिक-साधनानि च सम्मेल्य अष्टयोगाङ्गानां क्रमशः सम्यक् नियमपरिपालनपूर्वकं प्रयोगद्वारा मनुष्यः शारीरिक-मानसिकस्वास्थ्यं सुदृढं कृत्वा मोक्षं प्राप्नुयात्। मुख्यक्त्रीमहोदया उक्तवती यत्
समग्रस्वास्थ्यलाभाय शारीरिकमुद्राणां श्वासप्रश्वासयोर्व्यायामानां ध्यानादीनां च संयोजनेन नियमितरूपेण योगाभ्यासः करणीयः।
कार्यक्रमस्य संचालनं विहितम् आयोजकसचिवेन डॉ. मूलचन्द्रशुक्लेन।तेन विषयसम्बन्धितं संक्षिप्तञ्च विषयवस्तु प्रस्तुतम् ।
कार्यक्रमस्यान्ते एतेन अतिथिभिः सह समेषां/सर्वासाञ्च धन्यवादो विज्ञापितः ।
कार्यक्रमे प्रोफे. जी. सी. पन्तः, डॉ. सुमन कुमारः, डॉ. अनुराग श्रीवास्तवः, डॉ. दीपक खाती, प्रकाशबिष्टः, डॉ. डी. एन. जोशी, डॉ. नितिन ढोमने, मुरलीधर कापडी, इत्यादिभिः विशेषसहयोगः कृतः।
कार्यक्रमे महाविद्यालयपरिवारेण सह विविधविद्यालयेभ्यः महाविद्यालयेभ्यः विश्वविद्यालयेभ्यः संस्थाभ्यश्च विद्यार्थिनः,प्राध्यापक-प्राध्यापिकाः,योगानुरागिणो विशिष्टजनाश्च उपस्थिता आसन्।तत्र प्रोफे. जया तिवारी, प्रोफेसर निलिम्प त्रिपाठी, प्रोफेसर विनोदमिश्रः, डॉ. प्रदीपसेमवालः, डॉ. निवेदिता, डॉ. सुदीपः,डॉ.सुभाषचन्द्रः, डॉ. वेदप्रकाशः, डॉ. अखिलेशः, डॉ. भूपेशः, डॉ. शिप्रा, डॉ. हेमन्तः, डॉ. फरीन , डॉ. शारदा,गोविन्द जंगपांगी, दर्शनः इत्यादयः संयुता आसन् ।