विदेशमन्त्री डॉ. सुब्रह्मण्यम् जयशंकरः गतदिने चतुर्दिवसीयाधिकारिकयात्रायै तंजानियादेश प्रति प्रस्थानं कृतवान्। तत्र उच्चस्तरीय वार्ताय, तंजानियादेशस्य विदेशमन्त्रिणा सह दशमे संयुक्तायोगस्य उपवेशने व जयशंकरमहोदय उपवेशनस्य सहाय्यश्यं करिष्यति । स्वस्य भ्रमणकाले विदेशमन्त्री प्रथमं जन्जिवारदेशं गमिष्यति। तत्र भारतस्य सहयोगेन स्थापित जलापूर्तिसयन्त्रस्यावलोकन विधास्यति। डॉ जयशंकरः भारतीययुद्धपोते त्रिशूल इत्यत्र अपि समारोहे भाग ग्रहीष्यति। विदेशमन्त्री भारतस्य संसदीय मैत्रीसमूहस्य सदस्यैः सह मिलित्वा भारत- तंजानिया व्यापार-समागमस्य उद्घाटन करिष्यति। सः भारतीयप्रवासित सम्बोधयिष्यति, दार उस सलाम इत्यत्र स्वामी विवेकानन्दस्य प्रतिमायाः अनावरण व करिष्यति। भारत तंजानिययोः मध्ये पनिष्ठाः मैत्रीपूर्णाः च सम्बन्धाः विद्यन्ते । द्वयोः देशयोः शिक्षासम्बन्ध अधिक सुदृढं कर्तुं भारतीयप्रौद्योगिकी संस्थान-अस्मिन् वर्षे अक्टोबर मासे तंजानियादेशस्य जन्जिबारनगरे प्रथम वैदेशिकपरिसरे उद्धारविष्यति।











