गुरुपूर्णिमाया: शुभावसरे उज्जयिन्यां विशिष्टव्याख्यानं सञ्जातम् ।

वार्तासंयोजकः डॉ. दिनेश चौबे

उज्जयिनीस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय:, मध्यप्रदेशसंस्कृतिविभागस्य त्रिवेणीपुरातत्त्वसंग्रहालय:, उज्जयिनी इत्यनयो: संयुक्ततत्तावधाने ज्ञानसंप्रेषणस्य आदर्शपद्धति: गुरु-शिष्यपरम्परा इति विषये विशिष्टव्याख्यानस्यमायोजनं जूनमासस्य चतुर्तमे दिनाङ्के भौमवासरे त्रिवेणीसंग्रहालयस्य सभागारे अभूत्। गुरुपूर्णिमाया: शुभावसरे आयोजमानेऽस्मिन् कार्यक्रमे मुख्यातिथिरूपेण आचार्य: परमेश्वरनारायणशास्त्री, कुलपतिचर:,केंद्रीयसंस्कृत विश्वविद्यालय: ,नवदेहली विशिष्टातिथिरूपेण आचार्य: बलदेवानन्दसागर: प्रवाचक: आकाशवाणी, नवदेहली
उपस्थितौ आस्ताम् ।कार्यक्रमोऽयं पाणिनिसंस्कृतविश्वविद्यालयस्य माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य आध्यक्षत्वे अभूत्। समारोहस्य शुभारम्भः वैदिकमङ्गलाचरणेन
दीपदीपनेन सरस्वतीवन्दनया, च सञ्जातः । तदनु अतिथीनां पुष्पमाल्यार्पणेन- वचनकुसुमै: च् कुलपतिवर्येण स्वागतं विहितम्। तत: विश्वविद्यालयस्य छात्रै:
गुरुपादुकास्त्रोत्रस्य पाठ: कृत:। अतिथिनां परिचय: संग्रहालयस्य प्रबंधकेन श्रीगौरवतिवारी महोदयेन प्रस्तुत:। प्रस्तावकीयं डॉ.शुभम् शर्ममहोदयेन प्रस्तुतम् ।
विशिष्टातिथिरूपेण समागत: संस्कृतमनीषी डॉ. बलदेवानन्दसागरमहोदय: उक्तवान् यत् बुद्धिदानेन गुरुः सन्तापहारक: सर्वार्थप्रकाशको गुरुः साक्षात् परमात्मरूप: अस्ति यथा लोकेषु सर्वार्धप्रकाशकत्वात् सूर्यः प्रजानां प्राणस्वरूपः तथैव शिष्येषु कर्तव्याकर्तव्यस्य विवेकात्मक बुद्धेराधानात् गुरुः सर्वार्थप्रकाशको वर्तते। कार्यक्रमे मुख्यातिथिरूपेण उपस्थित: आचार्य: परमेश्वरनारायण शास्त्रीवर्य: प्रोक्तवान् यत् आदिगुरु: भगवान शिव: वर्तते समस्तविद्यानां प्रवर्तक: शिव: एव अस्ति पुराकाले गुरु-शिष्ययोः पिता-पुत्रवत् प्रगाढः पवित्रञ्च सम्बन्ध: आसीत्। नास्ति तत्त्वं गुरोः परम् । अतः समर्पणबुद्ध्याऽऽर्जवभावेन च सेवनीयाः सदा गुरवः । अतोऽध्यापिता ये शिष्याः गुरुं प्रति नाद्रियन्ते तेऽधीतविद्या अपि गुरोः कृपापात्राणि न भवन्ति ।
अध्यक्षरूपेणविराजमानेन आचार्यविजयकुमारमेनन्महोदयेन निगदितम्। यत् गुरुः दोषान् दूरी करोति गुरुरेव ज्ञान-विनय संस्कार सदाचारादीनाम् आधानं करोति। अतः शिष्याणां कृते सः सर्वस्वम्। अधिगतज्ञान-विज्ञान कौशलो गुरुः शिष्यान् ज्ञानविज्ञानादीन् नैपुण्येन तेषां जीवनं प्रकाशयति।
संगोष्ठया द्वितीयसत्रे मुख्यवक्तृरुपेण आचार्य: शैलेंद्रकुमारशर्ममहोदय: कुलानुशासक: विक्रम विश्वविद्यालय:, डॉ.तुलसीदास परौहा, साहित्यविभागाध्यक्ष:, डॉ. अखिलेशकुमारद्विवेदी, व्याकरणविभागाध्यक्ष:, डॉ संकल्पमिश्र:, वेदविभागाध्यक्ष:, डॉ.उपेन्द्रभार्गवमहोदय: योगविभागप्रमुख: महर्षिपाणिनिसंस्कृत विश्वविद्यालय:, उज्जयिनी सत्रं संबोधितवन्त: सत्रेSश्मिन्
शोधपत्राणां वाचनं जातम्।कार्यक्रम: विश्वविद्यालयस्य कुलसचिव: डॉ दिलीपसोनी महोदयस्य मार्गदर्शने अभूत् । कार्यक्रमे कालिदाससंस्कृत अकादमीनिदेशक डॉ. संतोष पंड्यामहोदय:, शासकीयजीवाजी वेधशाला अधीक्षक: श्रीराजेंद्र गुप्तवर्य: नगरस्य गणमान्यजना: समुपस्थिताः आसन् । कार्यक्रमस्य सञ्चालनं डॉ.अखिलेशकुमारपाण्डेय महोदयेन कृतम् । समारोहे पाणिनिविश्वविद्यालयस्य- संस्कृतमहाविद्यालयस्य अन्यविद्यालयस्य च् अध्यापकाःअधिकारिणः कर्मचारिण: छात्राच्शोधच्छात्रा: पत्रकारवान्धवाश्च समुपस्थिताः आसन् । कल्याणमन्त्रेण सह सभा समाप्ता जाता।