नवोद्योग-विंशति-शिखरसम्मेलनम

नवोद्योग-विंशति-संगतिसमूहः स्टॉर्टअप अद्यप्रभृति हरियाणाप्रदेशस्य गुरुग्रामे द्विदिवसीयस्य नवोद्योग-विंशति-शिखर सम्मेलनस्य अध्यक्षतां करोति। शिखरसम्मेलनमिदं अन्तिम-नीति-विज्ञप्तेः आधिकारिक विमोचनार्थ ऐतिहासिक कार्यक्रम-रूपेण कार्य करोति। एतत् सम्मेलनं एकस्य परिवर्तनशीलस्य समावेशिनः च नवोद्योग- पारिस्थितिकी तन्त्रस्य आधारं स्थापयिष्यति । येन माध्यमेन आर्थिक विकास नवाचार: सीमावर्ति-सहयोगः च वर्धिष्येते। समूहोऽयं भारत जीविंशतिः इत्यस्य अध्यक्ष-रूपेण कार्यं करोति, यस्योद्देश्यं वैश्विक-नवोद्योग इत्यस्य पारिस्थितिकी-तन्त्रस्य भविष्य-निर्माणं वर्तते।
अवसरेस्मिन् वाणिज्योद्योग मन्त्री सोम-प्रकाशः प्रोक्तवान् शिक्षायाः एवं जागरूकताया सांस्कृतिक- रूपेण संवेदनता-स्टार्ट-अप इति पारिस्थितकी तंत्रस्य विकासे महत्वपूर्णा भूमिका अस्ति । जी-विंशति शेरप अमिताभ कांत: प्रोक्तवान् यत् भारते स्टार्ट-अप इत्यत्र समेत्य निवेश: एकोनविंशाति गुणकः अभवत्।