कश्मीरः – अमरनाथ यात्रा

कश्मीरे द्विषष्टि-दिनात्मिकां वार्षिकामरनाथ यात्राम् अधिकृत्य श्रद्धालुषु विशिष्टोत्साहः द्रष्टुं प्राप्यते । भगवतः शिवस्य आराधनायै श्रद्धालुनां संख्यासु निरंतर वृद्धिः भवति । अद्य प्रातः त्रिषष्ट्यधिक-चतुः सहस्र तीर्थयात्रिणां एकं दलं नूनवान इत्यस्मात् आधारशिविरात् अग्रिमयात्रायै चंदनवाड़ प्रति, अपरत्र दोमेल इति आधारशिविरात् च षष्ट्युत्तर- चतुर्दश-शतं श्रद्धालुनां दलं बालतलमार्गेण दर्शनार्थं अमरनाथं प्रति प्रस्थितवती ।