2023 बीसीसीआई इत्यस्य कनिष्ठ-क्रीडक-क्रिकेट-समित्या आगामि ACC MEN’S ASIA CUP इति एशिया- क्रिकेट-चषक क्रीडायै नामानि उद्घोषितानि I द्वाविंशत्युत्तर- द्विसहस्रतमाब्दस्य अन्तर्-नवदश-विश्व क्रिकेटचषक क्रीडायां विजेतृनायकः यश-धुलः स्पर्धायाः नेतृत्वं करिष्यति सहैव अभिषेकशर्मा क्रिकेटदलस्य उपनायकः भविष्यति । साई-सुदर्शन् प्रदोषरञ्जनः च दले सम्मिलितौ स्तः । कन्दुकक्षेपकत्वेन मानवसूथरः युवराज सिंह डोडिया चापि अस्मिन् पञ्चदशक्रीडकानां दले सम्मिलितौ भविष्यतः । भारतं सर्वप्रथमं जुलाईमासस्य त्रयोदशदिनाङ्के यूएई-ए इति दलं सम्मुखीकरिष्यति तदनन्तरं पञ्चदश-अष्टादशदिनाङ्कयोः क्रमशः पाकिस्तान-नेपालौ सम्मुखीकरिष्यति ।











