आसीत् पुरा तक्षशिला नाम नगरी। नगर्यां नस्यां कश्चित् विद्वान् आचार्यः अवर्तत् । तस्य बहवः शिष्याः । पापकः नाम तेषु एकः अभवत् ।
पापकः इति स्वकीयनामधेयं तस्मै नारोचत, यतः तस्य सहाध्यायिनः ‘अरे पापक, अरे दुष्ट’ इति सततमुक्त्वा तं पीडयन्ति स्म ।
एकदातीव पीडितः सः गुरुमागत्य अभाषत, ‘आचार्य, मह्यं मम नामधेयं न रोचते, अपरं शोभनार्थाभिधानं यच्छतु भवान् मह्यम्’ इति । त्वमेव देशान्तरं गत्वा किमपि प्रियं नामधेयम् अन्विष्य आगच्छ । तदेव तव नाम प्रसिध्दं भवेत् इति गुरुणा आदिष्टः सः ।
तथेत्युक्त्वा, पाथेयं गृहित्वा पापकः यात्राम् आरभत । प्रथममेव शवं गृहित्वा श्मशानं गच्छतः जनान् अवलोक्य ‘कोऽयं मृत:’ इति कुतूहलेन अपृच्छत् । “अस्माकं जीवकः’ नाम वयस्यः मृतः”, इति तेभ्यः आकर्ण्य विस्मितः सः मनस्यकरोत्, यद्यपि एतस्य नामधेयं ‘जीवकः’ तथापि एषः मृतः । कथमेतत् संभवेत् इति ।
अनन्तरं काचिद दीना वनिता विलोकिता तेन । सा च निर्जने अरण्ये रोदिति स्म । पापकेन सा पृष्टा । ” का त्वंं ? किमर्थं रोदिषि ?” तदा सा अकथयत्, ”धनपाली नाम दासी अहम् । वृध्दवस्थायां मम समीपे किञ्चिदपि धनं नास्ति । दरिद्रा अहं कथमन्नं लभेय इति रोदिमि” । अभिधानं तु ‘धनपाली, तथापि निर्धना, आश्चर्यं खलु एतत् इति सः व्यमृशत् ।
तदनन्तरं सः कञ्चन संभ्रान्तं पुरुषं दृष्टवान् । मार्गात् भ्रष्टः सः स्वमार्गम् अन्विष्यन् इतस्ततः परिभ्रमति स्म । कः त्वम् ? कुतः परिभ्रम्यते त्वया ?” इति पृष्टे सः अकथयत् “पथकः इत मम नामधेयम् इदानिं तु अहमेव इष्टमार्गं नावगच्छामि ।
एतस्य नाम तु पथकः स्वयमेव मार्ग न जानाति इति विस्मितः सः प्रत्यागत्य गुरुं प्रणम्य अवदत्, आचार्य, मार्गे मया जीवकः मृतः दृष्टः, ‘धनपाली’ निर्धना अवलोकिता, पथकः च अनभिज्ञ मार्गः । अतः सम्यक् ज्ञातं मया यत् पुरुषः एव गुणवान्, दोषवान् वा भवति, न तस्य नाम्नि कोऽपि गुणः दोषः वा वर्तते । केवलं नामधेयेन किं फलम् ?”











