संसदः सदनद्वयमपि मणिपुर-दुर्घटनामधिकृत्य एकस्मै दिवसाय स्थगितम्।

संसदः सदनद्वयमपि एकस्मै दिवसाय स्थगितम्। मणिपुरहिंसाम् अधिकृत्य जाते कॉलाहलिक- सम्मर्दे सति लोकसभायाः प्रथमसत्रं निरश्य यदा द्विवादनतः द्वितीयसत्रं समारब्धं तदा पीठासीन अधिकारिणा सदनस्य स्थगन प्रस्तावं निरस्तीकृतम्। संसदीयकार्यमन्त्रिणा प्रह्लादजोशिना प्रोक्तं यत् प्रशासनेन पूर्वमेव स्पष्टीकृतमस्ति यत् मणिपुहिंसामधिकृत्य चर्चायै प्रशासनं सन्नद्धमस्तीति । तेन विषयमिमं संवेदनशीलमस्तीति उक्त्वा स्पष्टीकृतं यत् अस्य स्पष्टीकरणं गृहमन्त्री अमितशाहः करिष्यतीति । तेन सदनस्य सुचारुतया सुनिश्चयाय सर्वेभ्यः राजनीतिकदलेभ्यः सहयोग: अपेक्षितः, यतो हि सत्रेअस्मिन् नैके महत्वपूर्ण-विधेयाः आनेतव्याः सन्ति। कार्यजातौ कांग्रेस- द्रमुक जदयू सहित अन्ये सदस्याः अपि घोषपूर्वकं पीठसम्मुखम् आगताः, पीठासीन अधिकारिणा विरोधरताः सदस्याः अभ्यर्थिताः यत् ते कार्यजातौ व्यवधानं मा कुर्युरिति परं ते घोषरताः एव अभवन्। अन्ते सदनस्य कार्यजातं सम्पूर्णदिवसाय स्थगितम् । राज्यसभायां द्वितीयस्थगनानन्तरं मध्याहने द्विवादनतः यदा पुनस्समारब्धं तदा सूचनाप्रसारण- मन्त्रिणा अनुराग ठाकुरेण सिनेमैटोग्राफ इति संशोधन विधेयकम् अनुमोदनाय प्रस्तुतम्। तदनन्तरं विपक्षिनेतृणा मलिलकार्जुनखड़गे इत्यमुना मणिपुरहिंसायाः विषयोत्थापितः, अपेक्षितं च यत् सप्तषष्ट्युत्तर द्विशत-नियमानुसारं चर्चा भवेत्, यतो हि मणिपुरे स्थिति: सामान्या नास्ति, महिलासु च अत्याचारः क्रियते इति वार्ताः आयान्ति, तदुपरान्ते कांग्रेस-आदमी पार्टीति दलादि सहित अन्ये सदस्याः मणिपुर विषये चर्चा वाञ्छन्तः घोषरताः अभवन् । श्री जगदीपधनखडेन विरोधरताः सदस्याः सदनसन्चालनाय निर्दिष्टाः परं न कोअपि लाभ: लब्धः । सदनयोः दिवंगतसदस्येभ्यः श्रद्धान्जलयः समर्पिताः, नूतनसदस्याश्च संकल्पपत्रं पठितवन्तः। दिवसोअयं प्रावृट्सत्रस्य प्रथमः आसीत्, सत्रमिदं अगस्तमासस्य एकादशदिवसं यावत् प्रचलिष्यति।