केन्द्रीय स्वास्थ्य -परिवार कल्याण मन्त्री मनसुख मांडविया खाद्यसुरक्षा विषये व्यापक- विचार-विमर्शाय विश्वस्वास्थ्यसभायाः अनुरूपं वैश्विक- मध्यस्थता निर्माणाय आह्वाहनं कृतवान्

केन्द्रीय स्वास्थ्य परिवार कल्याण मन्त्री मनसुख मांडविया खाद्यसुरक्षा विषये व्यापक- विचार-विमर्शाय विश्वस्वास्थ्यसभायाः अनुरूपं वैश्विक मध्यस्थता निर्माणाय आह्वाहनं कृतवान् । अद्य नव- दिल्ल्यां द्वि-दिवसीय वैश्विक खाद्य नियामक सम्मेलनं सम्बोधन् सः एतत् अवदत् यत् खाद्यजनित रोगाणाम् समस्यां दृष्ट्वा वैश्विक खाद्य सुरक्षा-विषये विस्तृत चर्चा आवश्यकी अस्ति । अस्मिन् अवसरे डॉ0 मांडविया इत्यनेन त्रयाणां डिजिटल मंचानां शुभारम्भ विहितः ।
अस्मिन् अवसरे एकेन सन्देशमाध्यमेन विश्व स्वास्थ्य संघस्य महानिदेशक: डॉ0 टेड्रोस- एडनोन गेब्रेसियस इत्यनेन स्वास्थ्य मन्त्रालय: खाद्य सुरक्षा नियामक प्राधिकरणं च सम्मेलनस्य आयोजनाय प्रशंसितौ ।
भारतस्य जी-विशंति: शेर्पा अभिताभकान्तः प्रतिभागिभ्यः आग्रहं कृतवान् यत् शिक्षणार्थं एतस्य मंचस्य उपयोगं कुर्वन्तु इति ।