नमः सर्वविदे तस्मै विष्णवे भरताय च

धनञ्जयकृतं दशरूपकमिति नाट्यशास्त्रस्य इतिहासे महत्त्वपूर्णा कृतिः । अस्यां कृत्यां आचार्यवरः धनञ्जयः मङ्गलाचरणे विष्णुं भरतं च साम्यभावेन नमस्करोति । केन प्रकारेण ? दृश्यन्ताम्
दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च।।
(१.२)
अस्मिन् ‘दशरूपानुकारेण’ एव मुख्या काव्यकला दृश्यते । श्रीहरिणा दशरूपाणि धृतानि तु भरतेन दशरूपकाणि निर्दिष्टानि । मम्मटेनापि मङ्गलाचरणे काव्यकला एतादृशी एव प्रस्तुता। सेत्थम्-
नियतिकृत-नियमरहितां लावैकमयीम् अनन्यपरतन्त्राम् ।
नवरस – रुचिरां निर्मितिमादधती भारती कवेः जयति ।।

अत्र ब्रह्मणः सृष्ट्या सह कवेः भारतीम् अर्थात्, तस्य कारयित्रीं प्रतिभां तोलयति। किन्तु; तुलनायां विधातुः षट्रसेषु कवेः नवरसान् प्रस्तौति । स्पष्टमिदं यत् सार्द्धगुणम् अधिकं प्रदर्शितम्। तथापि कदापि ब्रह्मणा सह कविः तुल्यो न भवितुम् अर्हति। तत्सृष्ट्याम् एव सर्वम् । पुनरपि कविकृतिषु नव-नवोन्मेष- कारिणी या प्रतिभा, तस्याः एव मण्डनम् उद्देश्यमिति ।
अस्तु धनञ्जयेन दृष्टं यत् भरतमुनिना कृतस्य नाट्यशास्त्रस्य समासीकरणे वर्णनीयेषु दश रूपकेषु कानि दशधानि सन्ति, यानि शक्तिमत्त्वेन उपस्थेयानि! तस्य ‘समक्षं स्वयं जगत्पाता उपस्थितः । यद्यपि भागवते पुराणे तस्य चतुर्विंशतिः अवताराः अपि कथिताः, तथापि तेषु दश एव मुख्याः । एकस्मिन् सूत्ररूपे श्लोके केनचित् दशावताराः उद्धृताः-
वनजौ वनजौ खर्वः त्रिरामाः सकृपो ऽकृपः ।
अवतारा दशैवैते कृष्णस्तु भगवान् स्वयम् ।।

अस्मिन् आद्ये पादद्वये एव सर्वे अवताराः निर्दिष्टाः । वनजौ द्वौ- वनस्य एकस्मिन् अर्थे जले, जलात् जाती मत्स्य- कूर्मी । अतः मीनावतारः कच्छपावतारः च सूचितौ। द्वितीये वनजौ इति शब्दे वनस्य अतिप्रचलितः अर्थः
‘जंगल’ इति हिन्दीग्रहणे तत्सम्बन्धिनौ द्वौ तयोः प्रथमः वराहः, द्वितीयश्च नृसिंहः। खर्वः वामनः इति । सङ्ख्या निर्धारणेषु शब्देषु त्रिवाचकाः गुणाः रामाश्च त्रिके । अतः त्रिरामाः इत्यत्र परशुरामः, रघुनन्दनः, बलरामः च गणनीयाः। सकृपः बुद्धः, अकृपः कल्किश्च बोध्यौ । इत्थं दश अवताराः विष्णोः ।
प्रश्नः उत्थितः तु कृष्णः कथं नहि ? उत्तरे आगतम् सः तु भगवान् हरिः एव स्वयम्। अर्थात्, सः अंशावतारः नास्ति, अपितु पूर्णतः नारायणः । परन्तुः मत्स्यतः कल्किं यावत् ये अवताराः, ते सर्वे केवल समानाः ।
अनेन धनञ्जयेन ‘दशरूपानुकारेण’ इति कथितम्। अर्थात् दश रूपाणाम् अनुकारः, सादृशी – करणमिति । आशयोऽयं यत् एते दश हरेः नाट्यानि एव। अतः लीलावताराः अपि कथ्यन्ते। विष्णोः मीनादि-रूपैः भावकाः रसिकाः, भक्ताः माद्यन्ति, हृष्यन्ति । लीलां दृष्ट्वा रसाद्रीः भवन्तीति वाच्यम्। अस्मिन् भक्तिसागरे निमज्जनात् ते नवधा भक्तिम् आचरन्ति। तद्यथा भागवते-
श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यम् आत्मनिवेदनम्।।
(७.५.२३) एषु प्रत्येकं भक्तितः एव निष्पद्यते ।
अस्तु; भरतपक्षे ‘दशरूपानुकारेण’ इत्यत्र दशरूपाणाम् अनुकारेषु दशविधानां रूपकाणां नाट्येन एव। रूपम् एव रूपकम् । रूपकं तत्समारोपादिति। रूपारोपात् तु रूपकं वा । रूपयतीति वा। रूपि धातौ ण्वुल् प्रत्यययोगात् च। अवस्थानुकृतिः नाट्यमित्यत्र नायकादि-पात्राणां नाट्यकाराणां रचितायां विहितायां कथायां पात्रविशिष्टः यदाचरितुं निर्देशकेन निर्दिष्टः तदनुकरणम् एव कथ्यम् । तत्र कानि दशरूपकाणि? तु धनञ्जयस्य एव कथनं ग्राह्यम्-
नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोग-समवकारौ वीथ्यङ्केहामृगा इति ।।
(१.८ )
एषु अन्तःस्थान् वैशिष्ट्यान् विस्मृत्य केवलं सामान्यः परिचयः एव ध्येयः विस्तारभयात्। एषु प्रथमं नाटकम्। नाटकः नाटकं वा? उभयोः अर्थभिन्नता। नाटकः नर्तक इति नाटकं तु नाटयतीति। महारूपकम् अपि कथ्यते । नाटकं ख्यातवृत्तं स्यादित्यादिभिः आचार्य विश्वनाथेन परिभाषितम्, किन्तुः दशरूपकम् इत्यस्मिन् कथितम्-
प्रकृतित्वात् अथान्येषां भूयो रसपरिग्रहात्।
सम्पूर्ण-लक्षणत्वात् च पूर्वं नाटकमुच्यते।।
( ३.१)
दशरूपकेषु नाटकं प्रथमं कथम्? तु नाटकं शृङ्गारप्रधानं वीरप्रधानं वा भवति । अस्मिन् वस्तुनः, नेतुः (अन्येषां पात्राणां च), रसस्यापि सम्पूर्णता दृश्यते। प्रायः प्रकृतितः अभिनये सर्वेषां साम्यता एव। ख्यातवृत्तं तु नाटकस्य मुख्यं वस्तु, परन्तु पञ्चतः दशाङ्काः निर्धारिताः । अनेन अस्य बृहत् कलेवरं सूचितम् ।
प्रकरणं ख्यातवृत्तं न भवति । इदं कविकल्पितम् इतिवृत्तं भवति । अस्मिन् नृपादीनां न नायकत्वम् अपितु सामान्यः जनः अमात्य, विप्रः, वणिग्वा कोऽपि नायकत्वं प्राप्नोति । अतः धनञ्जयस्य मुख्योक्तिः-
अच प्रकरणे वृत्तम् उत्पाद्यं लोकसंश्रयम् ।
अमात्य विप्र-वणिजाम् एकं कुर्यात् च नायकम्।।
( ३.३६)
भाणे कोऽपि चतुर, निपुणः विटः स्वानुभूतं परेण वा धूर्तचरितं भवति । वीर-शृङ्गारात्मकोऽयम्। हास्यरसागि भाणवत् हि प्रहसनं भवति, यस्मिन् वस्तु, सन्धिः, सन्ध्यङ्गानि लास्यादीनि च भवन्ति । शुद्धं (ब्राह्मणैः, पाखण्डिभिः, सेवकैः, सेविकाभिः अभिनीतम्) वैकृतं (नपुंसकैः तपस्विभिः वा अभिनीतम्), सङ्करं (सङ्कीर्णैः वीथ्यङ्गानां सम्मिश्रणम्) इति प्रहसनं त्रिविधम्। नायक सङ्घात- व्यापारो डिमः डिमे देव- गन्धर्व राक्षसोरगादीनां कथानकं प्रसिद्धं भवति। प्रधानः रसः रौद्रः भवति।
रूपकस्य पञ्चमो भेदः व्यायोगः कथितः । अस्मिन् शृङ्गार- हास्येतरो रसः विद्यते। अस्मिन् ख्यातं वृत्तं भवति । एकदिवसीये वस्तुनि एकाङ्किनि आधारितेऽस्मिन् प्रायेण पुरुषाः एव अभिनयन्ति । अनेन कथितम् – व्यायोज्यन्ते अस्मिन् बहवः पुरुषाः इति व्यायोगः । समवकारे समवकीर्यन्ते अस्मिन् प्रयोजनानि। अस्मिन् आमुखं नाटकादिवत् देव-दैत्याधारितं ख्यातवृत्तम् आवश्यके प्रहसनवत् वीथ्यङ्गानां योजना अपि भवति । वीररसस्य प्रधानता चास्मिन् भवति।
वीथी मार्गः अङ्गानां पङ्क्तिः वा । प्रहसन-साम्येऽपि शृङ्गार – प्रधाना इयम्। ख्यातवृत्ते कविकल्पिते च । अर्थात्; इतिहास – कल्पनयोः मिश्रणात् अङ्कः । करुण-प्रधानो ऽयम्। अस्मिन् नाटकस्य कस्यचित् अङ्कस्य न स्थानम्, अपितु अयं स्वतन्त्रः रचितः विद्यते । यस्मिन् नायकः अलभ्यां नायिकां नायकः आखेटे वने मृगम् ईहते इच्छति, सः दशरूपकेषु दशमः ईहामृग इति। अस्मिन् प्रख्यात – कल्पितयोः मिश्रणं भवति । चत्वारः अङ्काः भवन्ति । शृङ्गाररसस्य आभासः एव अस्मिन् । एताः दिग्दर्शनम् इव दशविधानां नाट्यानाम् उपस्थितिः ।
वस्तुतः अवतारे नाट्ये च साम्यम् एव । अवतारे देवतायाः दिव्यत्वं प्रधानम्, किन्तु नाट्ये दिव्यस्य अथवा अदिव्यस्य अवतारिणः दिव्यादिव्यस्य च चरितस्य चरित्र-विशेषस्य वा अभिनयो दृश्यते । कृत्यप्रधानत्वे रसप्रधानता। अतः देवपक्षे या भगवल्लीला, सा एव मानवपक्षे अभिनयः ।
दशरूपककारेण धनञ्जयेन भरतकृतं नाट्यशास्त्रं संक्षेपीकृतम्, यस्मिन् रूपकाणां शास्त्रीयता उपस्थापिता । अतः तं प्रति कृतज्ञां ज्ञापयति। पुनः स्वयं सः परमारवंशीयस्य मुञ्जस्य राजकवेः विष्णुः इति नाम्नः राजकवेः पुत्रः आसीत्, अतएव वैष्णवभावनया दशावताराणां नमनं तेन समर्पितम्। अनेन कारणेन श्रीहरिं विश्वस्य सर्वविदं तथा भरतं नाट्यशास्त्रस्य सर्वविदं मत्वा स्वोद्गारं प्रकटयति नमः सर्वविदे तस्मै विष्णवे भरताय च इति ।