प्रधानमन्त्रिणा नरेन्द्रमोदिना मणिपुरे महिलाः विरुध्य हिंसायाः घटनासु दुःखं आक्रोशश्च प्रकटीकुर्वन् दोषिभ्यः कठोरदण्डस्य आश्वासनं दत्तम् ।

मणिपुर- आरक्षिबलेन द्वयोः आदिवासिमहिलयोः घृणास्पद – अवमानना प्रकरणे संलग्नेषु एक: अभियुक्तः निगडितः ।

प्रधानमन्त्रिणा नरेन्द्रमोदिना मणिपुरे महिलाः विरुध्य हिंसायाः घटनासु दुःखं आक्रोशश्च प्रकटीकुर्वन् दोषिभ्यः कठोरदण्डस्य आश्वासनं दत्तम् । श्रीमोदिना प्रोक्तं यत् मणिपुरस्य घटना कस्मैश्चिदपि सभ्यसमाजाय लज्जाकरम् अस्ति। सः अद्य प्रावृट्सत्रारम्भात् प्राक् संसदपरिसरे वार्ताहरान् संबोधयन् उक्तवान् यत् अनया दुर्घटनया चत्वारिंशदधिकैकशतकोटि-भारतीयानां शिरांसि निम्नीकृतानि, परं दुष्टाः न मोक्षिष्यन्ते। ध्यातव्यमस्ति यत् प्रतिक्रियैषा मणिपुरतः संचारमाध्यमेषु द्वयोः महिलयो: पुरुषसमूहेन कृत निकृष्ट- अवमाननानन्तरं समागतमस्ति। सहैव हि श्रीमोदिना प्रावृट्सत्रे विधेयकेषु सार्थकचर्चायाः आशा प्रकटिताअस्ति ।
मणिपुर निगडनम् मणिपुर-आरक्षिबलेन द्वयोः आदिवासिमहिलयोः घृणास्पद अवमानना प्रकरणे संलग्नेषु एक: अभियुक्तः निगडितः । यो हि सेनापति जनपदस्य महिलयोः निर्वस्त्रीकरण-प्रकरणे संचारमाध्यमेषु दृश्यमानेषु पुरुषेषु एकः अस्ति। घटनैषा मई मासस्य चतुर्थे दिनांके घटितासीत्।