महाराष्ट्र-राज्ये रायगढ – ग्रामे भूस्खलन व कारणेन दश-जनाः मृताः एकविंशतिः जनाश्च व्रणिताः ।

महाराष्ट्र-राज्ये रायगढ – जनपदेखालापुर क्षेत्रे गतरात्रौ भूस्खलन व कारणेन दश-जनाः मृताः एकविंशतिः जनाश्च व्रणिताः । साम्प्रतंयावत् पन्चसप्ततिः जनाः सुरक्षितरूपेण निष्कासिताः सन्ति । अस्मिन् विषये केन्द्रीय गृहमन्त्री अमित शाह : महाराष्ट्र-राज्यस्य मुख्यमन्त्री एकनाथ शिंदे इत्यमुना संवादं कृतवान् । ट्वीट सन्देशे श्री शाहः उक्तवान् यत् अस्माकं प्राथमिकता जनानां सुरक्षा घातितानां तात्कालिक – स्वास्थ्य सहायता प्रदानं च अस्ति।