केंद्रशासितप्रदेश– जम्मूकश्मीरे उपराज्यपालेन मनोजसिन्हा इत्यमुना औद्योगिक निवेशस्य स्थिते: समीक्षां कर्तु, द्रुततया निवेशवर्धनाय च हयः श्रीनगरे वरिष्ठाधिकारिभिस्समं एकस्य उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता । अवसरेअस्मिन् संबोधयता उपराज्यपालेन आवश्यक- आधारभूतसंरचनाभिस्सुसज्जितानां नैजिक औद्योगिकसम्पदानां वरीवर्धनायसक्रियाः पदक्षेपाः समुत्थापनीयाः इति निर्दिष्टम्। तेन विषयेअस्मिन् बलं ददन् उक्तं यत् महिलानां नेतृत्वयुताः उद्यमाः जम्मूकश्मीरस्य भविष्यं रचिष्यन्तीति । तेनोक्तं यत् अर्थव्यवसस्थायां तासां वरीवर्धमानां उपस्थितिं सुनश्चितव्यमिति । उपराज्यपालेन उपवेशनेअस्मिन् महिलोद्योग, कृषि, नवोद्योगादि सहित नैकेषु विषयेषु स्वविचाराः प्रस्थापिताः ।











