राष्ट्रिय-जनतान्त्रिक गठबन्धन इत्युक्ते एनडीए इत्यनेन अग्रिमं लोकसभानिर्वाचनमपि प्रधानमन्त्रिणः नरेन्द्रमोदिन: नेतृत्वे एव संकल्पितम्। गठबन्धनेन उक्तञ्च यत् बहुमतेन सातत्येन तृतीयवारमपि सत्तायाम् आगमिष्यतीति । यः नवदिल्ल्यां एनडीए इत्यस्य एकोनचत्वारिंशत्-दलैःउपवेशनेऽस्मिन् भागः गृहीतः । प्रस्तावे उक्तं यत् विश्वस्य लोकप्रियतमे नेतरि श्रीनरेन्द्रमोदिनि कोटिशः भारतीयानां अक्षुण्णविश्वासः अस्ति। प्रस्तावेऽस्मिन् उक्तमस्ति
विगतेषु नववर्षेषु प्रधानमन्त्रिणः नरेन्द्रमोदिन: नेतृत्वे एनडीए इति प्रशासनेन सेवायाः, सुशासनस्य निर्धनानां कल्याणस्य कल्पनां च सुभावनया सह साकाराकृतम्। सुशासनविकासयो: यात्रायां सर्वेषां वर्गाणां, क्षेत्राणां समुदायानाञ्च सहभागिता आसीत्।











