वचनं शीलमाख्याति (लघु कथा)

अथैकदा कश्चिद्राजा दण्डकारण्यं सपरिवारं मृगयार्थं गतवान् आसित् । वन्यसत्वम् अनुसरन् स राजा सहचरेभ्योऽमात्यादिभ्यो दूरम् अगच्छत् । ततस्ते सर्वे राजानम् अन्बेष्टुम् इतस्ततः अभ्रमन्। अरण्यमध्ये एकस्मिन् उटजे कवन् अन्ध साधुः न्यवसत् । राजानमन्वेष्टुं प्रधानामात्येन प्रेषितः कोऽपि सैनिकः तत्र प्राप्तः । वृक्षतल उपविष्टम् अन्धसाधुं दृष्ट्वा सगर्वम् अवदत् सः र अन्ध अपि आगतः अस्माकं राजा अत्र ?” इति तदाकर्ण्य साधुः उवाच ‘अन्धः अहम् न द्रष्टुं समर्थः अस्मि’ इति जाने त्वम् अन्धोऽसि। तथापि न बधिरः । अवस्य पदरवाः अपि न श्रुताः त्वया’ इति सोत्प्रासम् उक्तं तेन । साधोः न इति प्रत्युत्तरं श्रुत्वा दुर्वचनानि भाषमाणः स निर्गतः तस्मात् स्थानात् ।
अत्रान्तरे सेनापतिः तत्र उपस्थितः । भोः साधोः ! अप्यस्माकं नृपतिः आगतोऽत्र ?’ इति पृष्टे सति न नृपतिरागतः परम् एकः सैनिकः राजानम् अन्विष्यन् उत्तरां दिशम् अगच्छत्’ इति उक्तवान् सः ततच्च सेनापतिः अन्यत्र अन्वेषणार्थं निरगच्छत् । अनन्तरं स्वयं प्रधानामात्यः तत्र आगत्य रथात् अवतीर्य च सविनयं साधुम् अपृच्छत् “भोः साधुवर, वयं राज्ञा सह अस्मिन् दुर्गमवने मृगयार्थम् आगताः । परं दुर्भाग्येण अस्मत् वियुक्तः महाराजः अपि जानाति भवान् किञ्चित् अस्मिन्विषये भद्र न किमपि जानामि इति श्रुत्वा प्रधानामात्योऽन्यत्र निरगच्छत् ।
अधाल्पकालेन परिभ्रान्तो राजा तत्र उपस्थितः, यत्र स साधुरुपविष्टः कृताञ्जलिना भणितं राजा भगवन्, तृषार्तः अहम्, किञ्चित् जलमिच्छामि पातुम् तदा स अवदत् ‘राजन् स्वागतं ते परिभ्रान्तो लक्ष्यसे। अतो न सहसा जल पेयम् । कन्दमूलफलानि भुक्त्वा जलप्राशनं कर्तव्यम्’ । तदा सविस्मयं राज्ञा पृष्टम् ‘ननु नेत्रहीनेन भवता अहं राजा इति कथं विज्ञातम् । कश्चिदागतोऽत्र माम् अन्वेष्टुम् ?’ इति । तत् श्रुत्वा विहस्य अब्रवित् सः ‘प्रथमं सैनिको भवन्तमन्वेष्टुम् आगतः । तत्पश्चात् सेनापतिः । तदनन्तरं प्रधानामात्यः । अधुना भवानत्र उपस्थितः’ इति ।
तदा राजा प्रपच्छ, ‘तेषाम् अधिकारपदानि अपि कथम् अभिज्ञातानि’ । साधुः प्रत्यवदत् ‘तैः प्रयुक्तैः शब्दविशेषैः । सैनिकः मां रे अन्ध’ इति सम्बोधितवान्। सेनापतिना ‘भोः साधोः’ इति उक्तम् । प्रधानामात्यः सादरं साधुवर:’ इति अब्रवित् । भवता सप्रणामं भगवन्’ इति गौरवपदं प्रयुक्तम् । राजन् आदरान्वितवचांसि शीलश्रेष्ठतां द्योतयन्ति’ इति । तदाकण्यं संतुष्टो राजा ‘धन्यः खलु भवान्, यः शब्दमात्रेण शीलं परीक्षते । इत्युक्त्वा तं मुनिवरं प्रणाम्य स्वनगरं प्रतिनिवृत्तः ।