कम्प्यूटरनिर्यात आयात-अनुज्ञापत्रं

केन्द्रप्रशासनेन आपत्कालिक प्रभावेन लैपटॉप-टैबलेट-व्यक्तिगत संगणकानाम् आयाते प्रतिबन्धः प्रख्यापितः । प्रशासनेन एकस्याम् अधिसूचनायां विज्ञापितं यत् एतासां सामग्रीणाम् आयातस्य अनुमतिः प्रतिबन्धित-आयातेभ्यः वैधप्रपत्रे एव प्रदास्यते । प्रैषमाध्यमेन उत वा सम्प्रेषणमाध्यमेन ई-कॉमर्स- अन्तर्जापटलात् क्रीतानां संगठकयन्त्राणाम् आयाताय आयात- वैध प्रपत्रैः एव मुक्ति: प्रदत्ता । सर्वकारेण उक्तं यत् लैपटॉप, टैबलेट्, पर्सनल कम्प्युटर इत्येतेषाम् आयाताय वैधः अनुज्ञापत्रस्य आवश्यकता अस्मिन् वर्षस्य् नवम्बरमासस्य प्रथमदिनात् आरभ्य भविष्यति।विदेशव्यापार महानिदेशालयेन एकस्मिन् अधिसूचनायां उक्तं यत् प्रतिबन्धिताया- तस्य अनुज्ञापत्रेण विना अस्मिन् वर्षे अक्टोबर-मासस्य एकत्रिंशत् – दिनाङ्कपर्यन्तं आयात- वस्तूनां निष्कासनं कर्तुं शक्यते।