राष्ट्रिय सुरक्षा परामर्शदः अजित डोभाल : वैश्विकशान्तेः स्थिरतायाश्च संवर्धनार्थं रूस – यूक्रेन- देशयोः सह भारतस्य सहभागितां समङ्कितवान्। सऊदी अरबेन आयोजिते द्विदिवसीय यूक्रेन शान्ति-संवादे श्रीडोभालः प्रोक्तवान् यत् संघर्षकालादेव भारतेन रूस-यूक्रेनाभ्यां सह सक्रियरूपेण संवादः कृतः, अपि च एतस्य निराकरणार्थं प्रयासाः विहिताः । श्रीडोभाल : संघर्षस्यास्य समाधानान्वेषणार्थं हितधारकान् आहूतवान् ।











