वैदिकभाषादर्शनोच्चारणविज्ञानविषयकसङ्गोष्ठ्याः समापनम्

वार्तासंयोजक: डॉ.दिनेश: चौबे,उज्जयिनी

उज्जयिनीस्थस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य वेदव्याकरणविभागदर्शनविभागयोः तथा नवदेहलीस्थभारतीयदार्शनिकानुसन्धानपरिषदः संयुक्ततत्त्वावधानेन वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयाधारेण समायोजितत्रिदिवसीयसङ्गोष्ठ्याः समापनसत्रं सत्राभ्यां सह अधिकश्रावणशुक्लदशम्यां सम्पन्नम्।
समापनसत्रे अध्यक्षत्वेन विश्वविद्यालयस्य कुलपतिः विजयकुमार सि. जी. महोदयः आसीत्। मुख्यातिथिरूपेण नागपुरस्थस्य कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपतिः हरिरामत्रिपाठिमहोदयः, विशिष्टातिथिरूपेण तद्विश्वविद्यालयस्य कुलपतिचरा उमावैद्यमहोदया तथा विशिष्टवक्तृत्वेन देहलीस्थस्य लालबाहादुरशास्त्रिविश्वविद्यालयस्य आचार्यः रामसलाहीद्विवेदिमहोदयः च उपस्थिताः आसन्।
सङ्गोष्ठ्यामस्यामेकादशराज्यात् शोधच्छात्राः पत्रवाचनं कृतवन्तः इति महद्गौरवस्य विषयः। तथैव सप्ततिः शोधपत्राणि सङ्गोष्ठ्यामस्यां प्रतिपादितानि। समापनसत्रे चितपत्रवाचकानामनुभवकथनं विश्वविद्यालयस्य गरिमानां नितरामवर्धयत्।
समापनसत्रे हरिरामत्रिपाठिमहोदयः वेदानामपौरुषेयत्वं विविधानामैतिहासिकानां दार्शनिकानां च मतानि उपस्थापितवान्। विशिष्टातिथिः उमावैद्यमहोदया शिशूनामुच्चारणसम्बद्धं विज्ञानं प्रतिपादितवती। तथैव विश्वविद्यालयस्य कुलपतिः उच्चारणविज्ञानेन छात्ररक्षणं सम्भवति तथा संस्कृतं विज्ञानस्य भाषा इति समुद्घोषितवान्।
एवमेव पत्रवाचनसत्रयोः भारतीयदार्शनिकानुसन्धानपरिषदः निदेशिका पूजाव्यासमहोदया महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य साहित्य-विशिष्टसाहित्यविभागाध्यक्षः डा० तुलसीदासपारौहमहादयः, श्रीमहाकालेश्वरशोधसंस्थानस्य निदेशकः डा० पीयूषत्रिपाठिमहोदयः च उपस्थिताः आसन्।
त्रिदिवसव्याप्यामस्यां सङ्गोष्ठ्यां कानि ज्ञानरत्नानि शोधार्थिभिः संगृहीतव्यानि इति विषये कुलपितमहोदयः दिग्दर्शनञ्चकार। सञ्चालनं डॉ.संकल्पमिश्रमहोदयेन कृतम् ।