अमृतरेलस्थात्रः

प्रधानमन्त्री नरेन्द्रमोदी अगस्त मासे षष्ठ दिनाङ्के आभासीय माध्यमेन अष्टोत्तर- पञ्चाशतरेलस्थात्राणां पुनर्विकासस्य आधारशिलां अस्थापयत्। एतेषां संस्थात्राणां पुनर्विकासार्थं पञ्चविंशतिसहस्रकोटि-रूप्यकाणां व्ययो भविष्यति। प्रधानमन्त्रिणां कथितं यत् ‘अमृत भारत रेलवे स्टेशन’ इत्येतद् योजनान्तर्गतं प्रायः त्रिशताधिकैकसहस्र-वृहद् – रेलस्थात्राणां विकासः करिष्यते, येषु अष्टोत्तरपञ्चशत-रेलस्थात्राणां पुनर्विकासकार्यम् समारब्धं भविष्यति। अत्रावसरे प्रधानमन्त्रिणा प्रोदीरितं यत् एषः भारतीय रेलवे इत्यस्य इतिहासे विकासात्मकयुगस्य समारम्भः वर्तते। अनेन देशस्य सामान्य नागरिका: लाभान्विताः भविष्यन्ति । तेनोदीरितं यत् प्रत्येकमपि अमृत-रेलवेस्थात्रं नगराणां आधुनिकाकांक्षायाः एवञ्च प्राचीन रिक्थस्य च प्रतीकभूतं भविष्यति । श्रीमोदिना प्रोक्तं यत् सर्वकारेण पूर्वोत्तरराज्येषु रेलवे तन्त्रस्य विस्तारार्थं प्राथमिकता प्रदीयते । तेन कथितं यत् रेल पट्टिकायाः द्विगुणीकरणं, विद्युतीकरणम् एवञ्च नूतनमार्गाणां निर्माणदिशि सजवं कार्यं प्रवर्तते। अष्टोत्तर- पञ्चाशत-संस्थात्राणि सप्तविंशति राज्येषु केन्द्रशासितप्रदेशेषु च व्यापृतानि सन्ति। एतेषु उत्तरप्रदेश- राजस्थानयोः प्रत्येकं पञ्च पञ्चाशत्, बिहारे ऊनपञ्चाशत्, महाराष्ट्रे चतुश्चत्वारिंशत्, पश्चिमबंगाले सप्तत्रिंशत्, मध्यप्रदेशे चतुस्त्रिंशत्, असमराज्ये द्वात्रिंशत्, ओडिशायां पञ्चविंशतिः स्थात्राणि सम्मेलितानि सन्ति ।