उज्जयिनीस्थमहर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालय: एवञ्च नवदेहलीस्थभारतीयदार्शनिका-नुसन्धानपरिषद् इत्यनयो: संयुक्ततत्त्वावधाने वैदिकभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयं मधिकृत्य विविधोपविषयभूयिष्ठा विशाला राष्ट्रियशोधसंगोष्ठी आयोज्यते। अस्याः शुभारम्भः अस्य मासस्य षड्विंशे दिनाङ्के महाकालमन्दिरप्राङ्गनस्थे माधनसेवान्यासपरिसरस्य सभागारे भविता । संस्कृतजगति मूर्धन्यविद्वांसः अस्यां शोधसंगोष्ठ्याम् उपस्थित्य भारतीयभाषादर्शनमुच्चारणविज्ञानञ्च इति विषयस्य मन्थनपूर्वकं शोधपत्राणि प्रस्तोष्यन्ति। संगोष्ठ्याम् उद्घाटनसत्रे मुख्यातिथिरूपेण प्रदेशस्य उच्चशिक्षामन्त्री डॉ.मोहनयादवमहोदयः, सारस्वतातिथिरूपेण विक्रमविश्वविद्यालस्य कुलपतिः प्रो. अखिलेशकुमारपाण्डेयमहोदयः, विशिष्टातिथिरूपेण हिन्दी-ग्रन्थ-अकादमी इति संस्थायाः सञ्चालकः डॉ. अशोककडेलमहोदयः, मुख्यवक्तृरूपेण भारतीयदार्शनिकानुसन्धानपरिषदः सचिवः प्रो. सच्चिदानन्दमिश्रमहोदयः च उपस्थिता: भविष्यन्ति। सभाया अध्यक्षता उह्यते कुलपतिना आचार्यविजयकुमार: सी. जी. महोदयेन।
अष्टाविंशदिनाङ्के समापनसत्रे रामटेकस्थ-कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. हरेराम: त्रिपाठीमहोदयः, एवञ्च कुलपतिचरा आचार्या उमावैद्यमहोदया, नवदेहलीस्थलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयात् प्रो.
रामसलाहीद्विवेदीमहोदयः, प्रो. जयकान्तसिंहशर्ममहोदयः च सभाम् अलंकरिष्यन्ति।संगोष्ठामस्याम् उज्जयिनीस्थ महर्षिसान्दीपनिराष्ट्रियवेदविद्याप्रतिष्ठानस्य सचिवः विरुपाक्षजड्डीपालमहोदयः, जयपुरात् प्रो. विष्णुकान्तपाण्डेयमहोदयः, इन्दौरात् प्रो.मिथिलाप्रसादत्रिपाठीमहोदयः, कुरुक्षेत्रात् प्रो.राजेश्वरमिश्रमहोदयः, लखनऊतः प्रो. श्यामदेवमिश्र महोदयः, सतनात:प्रो. सुद्युम्नाचार्यमहोदयः, भोपालात् प्रो. प्रदीपकुमारपाण्डेयमहोदयः,डॉ.देशबन्धुमहोदयः, उज्जैनतः प्रो. शैलेन्द्रकुमारशर्ममहोदयः, डॉ. तुलसीदासपरौहामहोदयः, डॉ. पीयुषत्रिपाठीमहोदयः च उपस्थित्य सभाम् उद्बोधयिष्यन्ति।
त्रिषु दिवसेषु सायं षड्वादनात् विविधकलाकारैः,विश्वविद्यालयस्य छात्रैश्च सांस्कृतिककार्यक्रमाः अपि प्रस्तूयन्ते। अस्याः राष्ट्रियशोधसंगोष्ठ्याः संयोजकः वर्तते विश्वविद्यालयस्य वेदव्याकरणविभागयोः अध्यक्षः डॉ. अखिलेशकुमारद्विवेदीमहोदयः। विश्वविद्यालयस्य कुलसचिव: डॉ. दिलीपसोनी महोदयस्य मार्गदर्शने संगोष्ठी इयमायोज्यते। संगोष्ठामस्यां विश्वविद्यालयस्य शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च आमन्त्रिता:सन्ति।











