भारतीयसेनायाः वीरभटानां बलिदानं स्मरन् भारतदेशः जुलाई मासस्य षष्ट विंशति दिनांक कारगिल विजयदिवसं परिपालयत् । अस्मिन्नेव दिने नवनवत्युत्ररैकोनविंशतितमे वर्षे कारगिल इति लद्दाखक्षेत्रे षष्टिदिवसात्मक-युद्धानन्तरं भारतीयसैनिकैः पाकिस्तानं पराजित्य स्वक्षेत्रं रक्षितमासीत्। मुख्यसमारोहः द्रास इति क्षेत्रस्य कारगिलयुद्धस्मारके समायोजितः । रक्षामन्त्री राजनाथसिंहः त्रिसेनाप्रमुखः जनरल अनिल चौहान:, थलसेनाप्रमुखः मनोजपाण्डे, नौसेनाप्रमुखः आर. हरिकुमारः अन्ये च शीर्षसैन्यप्रमुखाः आयोजनेऽस्मिन् उपस्थिताः आसन् । तत्र सर्वेच्चबलिदातृभ्यः वीरसैनिकेभ्यः श्रद्धासुमनानि समर्पितानि। अवसरेऽस्मिन् रक्षामन्त्रिणा उक्तं यत् प्रशासनं देशस्य सम्मानाय प्रतिष्ठायाः रक्षणाय च किमपि कर्तुं प्रभवति इति । सभैषा मनोजपाण्डे इत्यमुनापि सम्बोधिता ।











