उत्तरप्रदेशे वाराणसीनगरस्यज्ञानवापीसङ्कुलस्य वैज्ञानिकसर्वेक्षणं पूर्णवेगेन प्रचलति। सर्वोच्चन्यायालयेन मुस्लिमपक्षस्य याचिका निरस्तीकृता तत्पश्चात् सर्वेक्षण-दलेन पुनःसर्वेक्षणं आरब्धम्। सर्वेक्षणकार्यं भारतस्यपुरातत्त्वसर्वेक्षणस्य (ए०एस०आई० ) चत्वारिंशत्तः अधिकैः सदस्यैः क्रियते । ए०एस०आई०- प्रतिनिधिना न्यायालये प्रस्तुतम् आसीत् यत्सर्वेक्षणसमये संरचनाभ्यः काचित् क्षतिः नभविष्यति इति । इन्तेजामिया मस्जिदसमितेः सदस्याः सर्वेक्षणस्य बहिष्कारं कृतवन्तः। पूर्वे इलाहाबाद-उच्च-न्यायालयेन वाराणसीनगरे ज्ञानवापि मस्जिद परिसरे भारतीय पुरातत्व-सर्वेक्षणं समाह्वानस्या: अंजुमन-मस्जिद समित्याः याचना निरस्तीकृता । न्यायलयेन मुस्लिमपक्षस्य वादश्रवणाय अनुमतिः नवै प्रदत्ता । यतो हि अनया अनुमत्या मस्जिद क्षेत्रं हानिः भविष्यति। एतदनन्तरं परिसरस्य वैज्ञानिक सर्वेक्षणस्य मार्ग: स्पष्टः जातः । अवधेयं वर्तते यत् वाराणसी- नगरस्य जनपद-न्यायाधीशेन ए.के विश्वेशेन जुलाईमासस्य एकविंशति दिनांके स्वकीयादेशस्य उपरान्ते ज्ञानवापि-परिसरं सर्वेक्षणाय निर्दिष्टम् । सर्वेक्षणाय चतस्रः हिन्दू-महिला: मईमासस्य षोडशदिनांके याचिकां प्रस्तुतवत्यः । वादिन्याः चतुर्णां महिलानां अधिवक्ता सुधीर त्रिपाठी इत्यनेन उक्तं यत् नन्दी इत्यस्य सम्मुखे व्यासजी इत्यस्य भूमिगतस्थाने मूर्तिनां अवशेषाः प्राप्ताः। एएसआई गहनतया अध्ययनं कुर्वन् सर्वेक्षणं करोति। अस्य स्वभावः व्यापकः , अत्र सर्वं वैज्ञानिकरीत्या भवति ।ज्ञानवापी परिसरस्य त्रिआयामी छायाचित्रण यंत्रेण क्रियते।











