चन्द्रयान-तृतीयं इत्यनेन लैण्डर एलएचडीएसी इत्यनयोः साहाय्येन चन्द्रमसः भूतले सुरक्षितावतरणक्षेत्रस्य अभिज्ञानप्रक्रिया समारब्धा । इसरो इत्यनेन अय एलएचडीएसी माध्यमेन चंद्रमसः दूरस्थक्षेत्राणां छायाचित्राणि प्रकाशितानि । एतैः चित्र: पाषाण- दीर्घ- भूगर्त मुक्तानां सुरक्षितक्षेत्राणाम् अभिज्ञाने साहाय्यं प्राप्स्यते । एतत् विशिष्टोपकरणम् अहमदाबाद-स्थेन अंतरिक्ष- एप्लीकेशन सेंटर-एसएसी इत्यनेन विकसितम् । अवधेयं यत् एसएसी इसरो इत्यस्य एकं प्रमुखानुसंधानं विकासकेंद्रम् च अस्ति । अंतरिक्षानुसन्धानविभागानुसारेण अगस्तमासस्य त्रयोविंशतिदिनाङ्के बुधवासरे सायं चतुरधिक षड्वादने रोवर इत्यनेन सह लैंडर मॉड्यूल इत्यस्य चन्द्रमसः तले अवतरणं संभाव्यते । ध्यानास्पदं वर्तते यत् जुलाईमासस्य चतुर्दशदिनाङ्के एतदभियानं समारब्धम् आसीत्। चंद्रयान- द्वितीयाभियानस्य एतत् अनुवर्ति-अभियानम् अस्ति ।
इसरो-चन्द्रयानम् भारतीयांतरिक्षानुसंधान संगठनं – इसरो इत्यस्य अध्यक्षः डॉक्टर एस. सोमनाथः अद्य परमाणूर्जा-अंतरिक्षमंत्री डॉक्टरजितेंद्रसिंहं सम्मिल्य बुधवासरे चंद्रयान- तृतीयाभियानम् इत्यस्यान्तर्गतं चन्द्रयानस्य चंद्रमसि – अवतरणस्थितिविषये सूचनां दत्तवान् । डॉक्टर सोमनाथः प्रोक्तवान् यत् चंद्रयान- तृतीयस्य सर्वाः प्रणाल्यः सुचारू रूपेण कार्यं कुर्वन्ति अपि च अवतरणसमये कस्याः अपि अवांछित घटनायाः आशंका न वर्तते । सः प्रोक्तवान् यत् आगामिदिवसद्वयोः चंद्रयान- तृतीयस्य स्थितिः निरन्तरम् अवलोकयिष्यते जितेंद्रसिंहेन चंद्रयान- तृतीयस्य सफलावतरणे विश्वासः व्यक्तीकृतः यत् एतेन ग्रहाणामन्वेषणस्य नूतनेतिहासः लेखिष्यते । इसरो इत्यनेन प्रोक्तं यत् अमेरिका- रूस चीन देशानाम् अनन्तरं भारतं चतुर्थतमः देशः भविष्यति येन एबोपलब्धिः प्राप्स्यते अपरत्र चंद्रमसः दक्षिण ध्रुव-क्षेत्रे अवातर्तुं भारतम् एव विश्वस्य प्रथमराष्ट्रं भविष्यति ।











