भारतीयज्ञानपरंपराविषयकं विशिष्टव्याख्यानं सुसम्पन्नम्

उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य माननीयकुलपति:आचार्यविजय- कुमार: सीजीमहोदय: उज्जयिनीस्थश्रीराजराजेन्द्रजयन्तसेनसूरीशिक्षामहाविद्यालयस्य तत्त्वावधाने अगस्तमासस्य चतुर्दिनाङ्कात् पञ्चदिनाङ्कं यावत् भारतीयज्ञानपरम्परा इति विषये आयोजिते विशिष्टव्याख्यानकार्यक्रमे मुख्यातिथिरूपेण सभां सम्बोधित्वान् महोदयेन भारतीयज्ञानपरम्पराया: प्रणेतारा: ऋषय: ,आचार्या: तेषां महापुरुषाणां योगदानम् इति विषये व्याख्यानं प्रदत्तम् ,सञ्चार- प्रौद्योगिकी-तकनीकीमाध्यमेन च् संस्कृतस्य प्रचार – प्रसार: भवेत् भारते शास्त्रार्थस्य महान् परम्परा वर्तते शास्त्रसंरक्षणं परमावश्यकम् अनेन नानाशास्त्रेषु योग्यविद्वांसः सज्जी भविष्यन्तीति। शिक्षणसामग्र्याः सरलभाषया निर्माणं कृत्वा
पाठनीयम् अनेन छात्राणां सामाजिकानाञ्च महान् लाभो भविष्यति “भारतीयज्ञानपरम्पराधारिते ” विषये विशिष्टव्याख्यानानि आयोजनीयानिति। आभासीय पटलमाध्यमेन आयोजिते अस्मिन् द्विदिवसीय (वेविनार) विशिष्टव्याख्यानकार्यक्रमे ,तत्र विभिन्नेषु संस्थानेषु अध्यापनरतैः विद्वद्भिः भिन्नभिन्नविषयमाधृत्य विशिष्टानि व्याख्यानानि प्रदत्तानि। कार्यक्रमेऽस्मिन् नैकेभ्यो महाविद्यालयेभ्यः संस्थानेभ्यश्च आचार्याः, प्राध्यापकाः, शोधच्छात्राः, छात्राश्च प्रतिभागं कृतवन्तः। कार्यक्रमोऽयं विक्रमविश्वविद्यालयस्य कुलपति: प्रो.अखिलेशकुमारपाण्डेय
महोदयस्य आध्यक्ष्ये सन्जातः। पाण्डेयमहोदयेन वैदिक शिक्षाव्यवस्थाविषये विस्तृतं व्याख्यानं दत्तम्। अस्मिन्कार्यक्रमे डॉ. स्मिता भवालकरमहोदया,श्रीमान् पारसचन्दजैनमहोदय:,
महाविद्यालयस्य प्राचार्या, डॉ.विद्याजोशीमहोदया, डॉ. रूचितासाकोरिकरमहोदया, विशेषरुपेण उपस्थिता: आसन् ।