उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथ: केन्द्रीय युव कार्यक्रम क्रीडा मन्त्री अनुराग- सिंह ठाकुरः च अद्य यूथ 20 इत्येतस्य सम्मेलनस्य औपचारिकीयोद्घाटनं कृतवन्तौ । सम्मलेनं सम्बोधयता केन्द्रीय-युव-कार्यक्रम-क्रीडामन्त्रिणा अनुरागसिंहठाकुरेण समुदीरितं यत् एतत् वाई- 20 सम्मेलनं यूनः परस्परं संयोजयति। अत्रावसरे कार्यक्रमम् सम्बोधयन् उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथ: निगदितवान् यत् नरेन्द्रमोदिनः प्रशासनेन विगतेषु नववर्षेषु युवभ्यः अनेकाः योजना प्रचालिताः । अस्य शिखरसम्मेलनस्य उद्देश्यं अन्यैः हितधारकैः सह सहकार्यस्य, संजालस्य च अवसरान् प्रदातुं, युवानां विकासे योगदानं दातुं, वैश्विकमञ्चे युवानां कार्यसूचनायाः चर्चां कर्तुं च अस्ति।











